२०

01 हिल्लुकान् द्वे गायेताम् ...{Loading}...

हिल्लुकां द्वे गायेताम् । हिम्बिनीं द्वे । हस्तावारां द्वे । संवत्सरगाथां द्वे १

02 वाग्वेद हिल्लुकां सैनाङ् ...{Loading}...

वाग्वेद हिल्लुकां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हिम्बिनीं सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हस्तावारां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावत्विति २

03 ततः सम्वत्सरगाथा गाव ...{Loading}...

ततः सम्वत्सरगाथा । गाव एव सुरभयो गावो गुल्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीः । ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं नदीं प्राचीश्चोज्जगाहिरे । इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये शर्श्यो यथा । यदा भङ्ग्यश्विनौ वदत ऋत पर्णक योऽवधीः । आविष्कृतस्य दूषणमुभयोरकृतस्य च । यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे व्यृद्धे ग्रामेणा नड्वांस्तप्यते वहन् । इदं कल्माष्यो अपिबन्निदं सोमो असूयत । इदं हिरण्यैः खीला आवायन्साक्थिभञ्जनम् ३

04 हैमहा इदम् मधु ...{Loading}...

हैमहा इदं मधु हिल्लु हिल्ल्विति सर्वासामृगन्तेषु समयः ४

05 अत्रैता दासकुमार्य उदकुम्भानुपनिनीय ...{Loading}...

अत्रैता दासकुमार्य उदकुम्भानुपनिनीय यथार्थं गच्छन्ति ५

06 माहेन्द्रस्य स्तुतमनु घोषाः ...{Loading}...

माहेन्द्रस्य स्तुतमनु घोषाः शाम्यन्ति ६

07 अर्कः पवित्रं रजसो ...{Loading}...

अर्कः पवित्रं रजसो विमानः पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महदशीमहि गाधमुत प्रतिष्ठामिति फलके कूर्चौ वाधिरुह्याध्वर्युः शस्त्रं प्रतिगृणाति ७

08 सन्तिष्ठते महाव्रतम् ...{Loading}...

सन्तिष्ठते महाव्रतम् ८

इति विंशी कण्डिका


  1. For details of these verses see the next two Sūtras. ↩︎ ↩︎