१९

01 उपाकृते माहेन्द्रस्य स्तोत्रे …{Loading}…

उपाकृते माहेन्द्रस्य स्तोत्रे सर्वा वाचो वदन्ति १

02 उत्क्रोदं यजमानाः कुर्वते …{Loading}…

उत्क्रोदं यजमानाः कुर्वते २

03 अपाघाटलिकास्तम्बलवीणाः पिच्छोला इति …{Loading}…

अपाघाटलिकास्तम्बलवीणाः पिच्छोला इति पत्नयो वादयन्ति ३

04 सम्प्रवदन्ति वीणावादाः शङ्खान्नाळीस्तूणवानिति …{Loading}…

संप्रवदन्ति वीणावादाः शङ्खान्नाळीस्तूणवानिति ४

05 ऋतीयेते ब्रह्मचारी पुंश्चली …{Loading}…

ऋतीयेते ब्रह्मचारी पुंश्चली च दक्षिणां द्वार्बाहुमाश्लिष्यमाणौ ५

06 संवर्त्तेते पुंश्चलीमागधश्च …{Loading}…

संवर्त्तेते पुंश्चलीमागधश्च ६

07 आजिन् धावन्ति …{Loading}…

आजिं धावन्ति ७

08 दुन्दुभीन्समाघ्नन्ति पुच्छकाण्डेन भूमिदुन्दुभिम् …{Loading}…

दुन्दुभीन्समाघ्नन्ति । पुच्छकाण्डेन भूमिदुन्दुभिम् ८

09 शूद्रार्यौ चर्मकर्ते व्यायच्छेते …{Loading}…

शूद्रार्यौ चर्मकर्ते व्यायच्छेते आर्द्रे श्वेते परिमण्डले । अन्तर्वेदि ब्राह्मणो बहिर्वेदि शूद्रः ९

10 आक्रोशति शूद्रः प्रशंसति …{Loading}…

आक्रोशति शूद्रः । प्रशंसति ब्राह्मणः १०

11 इमेऽरात्सुरिमे सुभूतमक्रन्निति ब्राह्मणः …{Loading}…

इमेऽरात्सुरिमे सुभूतमक्रन्निति ब्राह्मणः । इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति शूद्रः ११

12 तम् ब्राह्मणः सञ्जित्याग्नीध्रे …{Loading}…

तं ब्राह्मणः सञ्जित्याग्नीध्रे चर्माध्यस्यति १२

13 विपरियान्त्येतच्चर्म कवचिनः …{Loading}…

विपरियान्त्येतच्चर्म कवचिनः १३

14 तेषामेकैकं संशास्ति मापरात्सीर्मातिव्यात्सीरिति …{Loading}…

तेषामेकैकं संशास्ति मापरात्सीर्मातिव्यात्सीरिति १४

15 तते विद्ध्या नातिपातयन्ति …{Loading}…

तते विद्ध्या नातिपातयन्ति १५

16 राजपुत्रा विध्यन्तीत्येकेषाम् …{Loading}…

राजपुत्रा विध्यन्तीत्येकेषाम् १६

17 उदञ्चोऽपरिमितमध्वानं यात्वा प्रत्यायाय …{Loading}…

उदञ्चोऽपरिमितमध्वानं यात्वा प्रत्यायाय विमुञ्चन्ति १७

18 अत्रैता दासकुमार्य उदकुम्भानधिनिधाय …{Loading}…

अत्रैता दासकुमार्य उदकुम्भानधिनिधाय त्रिः प्रदक्षिणं मार्जालीयं परिनृत्यन्ति दक्षिणान्पदो निघ्नन्तीरिदम्मधुं गायन्त्यः १८

19 इदमेव सारघम् मध्वयं …{Loading}…

इदमेव सारघं मध्वयं सोमः सुतो इह । तस्येह पिब तातृपुर्हैमहा इदं मध्विदं मध्वित्येव गायेयुरित्याश्मरथ्यः १९

20 अथालेखनः …{Loading}…

अथालेखनः २०

इत्येकोनविंशी कण्डिका