१८

01 दिक्षु दुन्दुभीन्प्रबध्नन्ति स्रक्तिषु ...{Loading}...

दिक्षु दुन्दुभीन्प्रबध्नन्ति । स्रक्तिषु वा महावेदेः १

02 अपरेणाग्नीध्रम् भूमिदुन्दुभिमवटङ् खनन्ति ...{Loading}...

अपरेणाग्नीध्रं भूमिदुन्दुभिमवटं खनन्ति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि २

03 तमार्द्रेण चर्मणोत्तरलोम्नाभिवितत्य शङ्कुभिः ...{Loading}...

तमार्द्रेण चर्मणोत्तरलोम्नाभिवितत्य शङ्कुभिः परिणिहत्यात्रैतत्पुच्छकाण्डमाहननार्थं निदधाति ३

04 अग्रेणाग्नीध्रं शूद्रार्यौ निकल्पेते ...{Loading}...

अग्रेणाग्नीध्रं शूद्रार्यौ निकल्पेते चर्मकर्ते व्यायंस्यमानौ ४

05 उत्तरेणाग्नीध्रङ् कटसङ्घाते तेजनसङ्घाते ...{Loading}...

उत्तरेणाग्नीध्रं कटसङ्घाते तेजनसङ्घाते वार्द्द्रं चर्म व्यधनार्थं वितत्योच्छ्रयन्ति ५

06 अग्रेणाहवनीयं रथेषु कवचिनः ...{Loading}...

अग्रेणाहवनीयं रथेषु कवचिनः सन्नह्यन्ते ६

07 मार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते ...{Loading}...

मार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते ७

08 वाग्भद्रम् मनो भद्रम् ...{Loading}...

वाग्भद्रं मनो भद्रं मानो भद्रं तन्नो भद्रमिति त्रिः पर्वयेत् ८

09 कटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन ...{Loading}...

कटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन वा वाणं संह्राद्य तेन माहेन्द्रस्य स्तोत्रमुपाकरोति ९

10 उद्गाता वादयतीति विज्ञायते ...{Loading}...

उद्गाता वादयतीति विज्ञायते १०

11 तमुद्गाता प्रस्तोत्रे प्रयच्छति ...{Loading}...

तमुद्गाता प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे । तमध्वर्युरन्यस्मै ११

12 तं सोऽग्रेण सदसो ...{Loading}...

तं सोऽग्रेण सदसो दक्षिणां द्वार्बाहुं प्रतिवादयन्नास्ते १२

इत्यष्टादशी कण्डिका


  1. Thus KS XXXIV.5, TMB V.5.18. ↩︎ ↩︎ ↩︎ ↩︎

  2. The text given by Garbe is to be corrected as triparvayotkaṭaśalā kayā; cf. Caland’s translation. The tree named Utkaṭa is not identified. ↩︎

  3. i.e. the Mahavrata-Stotra, the first Pr̥ṣṭha-Stotra of the Midday pressing. ↩︎