१७

01 ततो महाव्रतमुपयन्ति पञ्चविंशमग्निष्टोमम् ...{Loading}...

ततो महाव्रतमुपयन्ति पञ्चविंशमग्निष्टोमम् १

02 अनु श्लोकेन स्तुवते ...{Loading}...

अनु श्लोकेन स्तुवते २

03 नवभिरैन्द्रीभिरप्रतिहृताभिरध्वर्युरुद्गायति न वा ...{Loading}...

नवभिरैन्द्रीभिरप्रतिहृताभिरध्वर्युरुद्गायति । न वा ३

04 भद्रं साम पत्नय ...{Loading}...

भद्रं साम पत्नय उपगायन्ति ४

05 तस्य प्रचरितम् मरुत्वतीयैर्भवति ...{Loading}...

तस्य प्रचरितं मरुत्वतीयैर्भवति ५

06 अगृहीतो माहेन्द्रः ...{Loading}...

अगृहीतो माहेन्द्रः ६

07 अथ प्रतिप्रस्थाता महाव्रतिकानि ...{Loading}...

अथ प्रतिप्रस्थाता महाव्रतिकानि शिल्पानि व्यायातयति ७

08 औदुम्बरस्य वीणादण्डस्य दशातिमथितानि ...{Loading}...

औदुम्बरस्य वीणादण्डस्य दशातिमथितानि ८

09 एकैकस्मिन्नतिमथिते दशदश मौञ्जांस्तन्तून्प्रवयति ...{Loading}...

एकैकस्मिन्नतिमथिते दशदश मौञ्जांस्तन्तून्प्रवयति ९

10 स वाणः शततन्तुः ...{Loading}...

स वाणः शततन्तुः १०

11 अथैकेषाम् भूस्त्रयस्त्रिंशत्तन्तव इति ...{Loading}...

अथैकेषाम् । भूस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमध्वर्युः प्रतनोति । भुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतं होता । सुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमुद्गाता । गृहपतिरुत्तमम् ११

12 औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति मौञ्जविवानामध्यधि ...{Loading}...

औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति मौञ्जविवानामध्यधि होतृषदने १२

13 औदुम्बरम् प्लेङ्खं होत्रे ...{Loading}...

औदुम्बरं प्लेङ्खं होत्रे प्रबध्नाति मौञ्ज्या रज्ज्वा १३

14 औदुम्बरे फलके अध्वर्यव ...{Loading}...

औदुम्बरे फलके अध्वर्यव उपनिदधाति । कूर्चौ वा १४

15 कूर्चेषु होत्रका उपगातारः ...{Loading}...

कूर्चेषु होत्रका उपगातारः पत्नय इत्यासते १५

16 निकल्पन्ते पत्नयोऽपाघाटलिकास्तम्बलवीणाः पिच्छोला ...{Loading}...

निकल्पन्ते पत्नयोऽपाघाटलिकास्तम्बलवीणाः पिच्छोला इति १६

17 निकल्पन्ते वीणावादाः शङ्खान्नाळीस्तूणवानिति ...{Loading}...

निकल्पन्ते वीणावादाः शङ्खान्नाळीस्तूणवानिति १७

18 निकल्पेते ब्रह्मचारी पुंश्चली ...{Loading}...

निकल्पेते ब्रह्मचारी पुंश्चली चाग्रेण सदसो दक्षिणां द्वार्बाहुमार्तिष्यमाणौ १८

19 उत्तरस्यां वेदिश्रोण्याम् पुंश्चल्यै ...{Loading}...

उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति १९

इति सप्तदशी कण्डिका


  1. Cf, TMB IV. 10.5, TB I.2.6.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.17.11 ↩︎