१७

01 ततो महाव्रतमुपयन्ति पञ्चविंशमग्निष्टोमम् …{Loading}…

ततो महाव्रतमुपयन्ति पञ्चविंशमग्निष्टोमम् १

02 अनु श्लोकेन स्तुवते …{Loading}…

अनु श्लोकेन स्तुवते २

03 नवभिरैन्द्रीभिरप्रतिहृताभिरध्वर्युरुद्गायति न वा …{Loading}…

नवभिरैन्द्रीभिरप्रतिहृताभिरध्वर्युरुद्गायति । न वा ३

04 भद्रं साम पत्नय …{Loading}…

भद्रं साम पत्नय उपगायन्ति ४

05 तस्य प्रचरितम् मरुत्वतीयैर्भवति …{Loading}…

तस्य प्रचरितं मरुत्वतीयैर्भवति ५

06 अगृहीतो माहेन्द्रः …{Loading}…

अगृहीतो माहेन्द्रः ६

07 अथ प्रतिप्रस्थाता महाव्रतिकानि …{Loading}…

अथ प्रतिप्रस्थाता महाव्रतिकानि शिल्पानि व्यायातयति ७

08 औदुम्बरस्य वीणादण्डस्य दशातिमथितानि …{Loading}…

औदुम्बरस्य वीणादण्डस्य दशातिमथितानि ८

09 एकैकस्मिन्नतिमथिते दशदश मौञ्जांस्तन्तून्प्रवयति …{Loading}…

एकैकस्मिन्नतिमथिते दशदश मौञ्जांस्तन्तून्प्रवयति ९

10 स वाणः शततन्तुः …{Loading}…

स वाणः शततन्तुः १०

11 अथैकेषाम् भूस्त्रयस्त्रिंशत्तन्तव इति …{Loading}…

अथैकेषाम् । भूस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमध्वर्युः प्रतनोति । भुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतं होता । सुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमुद्गाता । गृहपतिरुत्तमम् ११

12 औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति मौञ्जविवानामध्यधि …{Loading}…

औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति मौञ्जविवानामध्यधि होतृषदने १२

13 औदुम्बरम् प्लेङ्खं होत्रे …{Loading}…

औदुम्बरं प्लेङ्खं होत्रे प्रबध्नाति मौञ्ज्या रज्ज्वा १३

14 औदुम्बरे फलके अध्वर्यव …{Loading}…

औदुम्बरे फलके अध्वर्यव उपनिदधाति । कूर्चौ वा १४

15 कूर्चेषु होत्रका उपगातारः …{Loading}…

कूर्चेषु होत्रका उपगातारः पत्नय इत्यासते १५

16 निकल्पन्ते पत्नयोऽपाघाटलिकास्तम्बलवीणाः पिच्छोला …{Loading}…

निकल्पन्ते पत्नयोऽपाघाटलिकास्तम्बलवीणाः पिच्छोला इति १६

17 निकल्पन्ते वीणावादाः शङ्खान्नाळीस्तूणवानिति …{Loading}…

निकल्पन्ते वीणावादाः शङ्खान्नाळीस्तूणवानिति १७

18 निकल्पेते ब्रह्मचारी पुंश्चली …{Loading}…

निकल्पेते ब्रह्मचारी पुंश्चली चाग्रेण सदसो दक्षिणां द्वार्बाहुमार्तिष्यमाणौ १८

19 उत्तरस्यां वेदिश्रोण्याम् पुंश्चल्यै …{Loading}…

उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति १९

इति सप्तदशी कण्डिका


  1. Cf, TMB IV. 10.5, TB I.2.6.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.17.11 ↩︎