१६

01 ततः सम्भार्यम् ...{Loading}...

ततः सम्भार्यम् १

02 द्वावभिप्लवौ गोआयुषी द्वादशाहस्य ...{Loading}...

द्वावभिप्लवौ । गोआयुषी । द्वादशाहस्य दशाहानि । पराणि चत्वारि शयान्यहानि । महाव्रतमतिरात्रश्च २

03 इति द्वादश मासाः ...{Loading}...

इति द्वादश मासाः ३

04 इति शाट्यायनकम् ...{Loading}...

इति शाट्यायनकम् ४

05 अथ ताण्डकम् ...{Loading}...

अथ ताण्डकम् ५

06 उत्तरस्य पक्षस उपरिष्टाद्विश्वजित ...{Loading}...

उत्तरस्य पक्षस उपरिष्टाद्विश्वजित आवृत्तं पृष्ट्यं षडहमुपेत्य त्रीनभिप्लवानावृत्तान् ६

07 तानि सह पूर्वैरष्टाविंशतिः ...{Loading}...

तानि सह पूर्वैरष्टाविंशतिः शयान्यहानि ७

08 आवृत्तम् पृष्ठ्यं षडहमुपेत्य ...{Loading}...

आवृत्तं पृष्ठ्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे ८

09 एवंविहितांश्चतुरो मासानुपयन्ति ...{Loading}...

एवंविहितांश्चतुरो मासानुपयन्ति ९

10 ततः सम्भार्यौ ...{Loading}...

ततः सम्भार्यौ १०

11 त्रयोऽभिप्लवा आयुर्गौर्द्वादशाहस्य दशाहानि ...{Loading}...

त्रयोऽभिप्लवा आयुर्गौर्द्वादशाहस्य दशाहानि ११

12 पराण्यष्टाविंशतिः शयान्यहानि महाव्रतमतिरात्रश्च ...{Loading}...

पराण्यष्टाविंशतिः शयान्यहानि महाव्रतमतिरात्रश्च १२

13 इति द्वादश मासाः ...{Loading}...

इति द्वादश मासाः १३

14 इति ताण्डकम् ...{Loading}...

इति ताण्डकम् १४

15 अथ भाल्लविकम् ...{Loading}...

अथ भाल्लविकम् १५

16 पूर्वस्य पक्षसः पुरस्तादुत्तमात्पृष्ठ्यादभिजितमग्निष्टोमम् ...{Loading}...

पूर्वस्य पक्षसः पुरस्तादुत्तमात्पृष्ठ्यादभिजितमग्निष्टोमम् १६

17 उत्तरस्य पक्षस उपरिष्टात्प्रथमात्पृष्ठ्याद्विश्वजितमग्निष्टोमम् ...{Loading}...

उत्तरस्य पक्षस उपरिष्टात्प्रथमात्पृष्ठ्याद्विश्वजितमग्निष्टोमम् १७

18 समानमितरच्छाट्यायनकेन ...{Loading}...

समानमितरच्छाट्यायनकेन १८

19 अपि वा संवत्सरं ...{Loading}...

अपि वा संवत्सरं सम्पाद्योत्तमे मासि द्वादशाहीये दशरात्रे सकृत्पृष्ठान्युपेयुः १९

20 तत्र पृष्ठ्यानां स्थानेऽभिप्लवा ...{Loading}...

तत्र पृष्ठ्यानां स्थानेऽभिप्लवा निधीयेरन् २०

21 उपरिष्टाद्द्वादशाहीयाद्दशरात्रान्महाव्रतम् ...{Loading}...

उपरिष्टाद्द्वादशाहीयाद्दशरात्रान्महाव्रतम् २१

इति षोडशी कण्डिका


  1. See Sūtra 7 above. ↩︎