१५

01 गवामयनेन प्रजाम् भूतिम् ...{Loading}...

गवामयनेन प्रजां भूतिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति १

02 तस्य द्वादशाहेन सत्त्रभूतेन ...{Loading}...

तस्य द्वादशाहेन सत्त्रभूतेन कल्पो व्याख्यातः २

03 सप्तदशैके दीक्षाः समामनन्ति ...{Loading}...

सप्तदशैके दीक्षाः समामनन्ति ३

04 संवत्सराय दीक्षिष्यमाणा एकाष्टकायान् ...{Loading}...

संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नित्युक्तम् ४

05 चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ...{Loading}...

चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ५

06 माघ्या इत्याश्मरथ्यः चैत्त्र्या ...{Loading}...

माघ्या इत्याश्मरथ्यः । चैत्त्र्या इत्यालेखनः ६

07 समानमा प्रायणीयात् ...{Loading}...

समानमा प्रायणीयात् ७

08 प्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुकथ्यमारम्भणीयमुपयन्ति ...{Loading}...

प्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुकथ्यमारम्भणीयमुपयन्ति ८

09 ते द्वे शये ...{Loading}...

ते द्वे शये अहनी भवतः ९

10 अथाभिप्लवं षडहमुपयन्ति ज्योतिषमग्निष्टोमं ...{Loading}...

अथाभिप्लवं षडहमुपयन्ति । ज्योतिषमग्निष्टोमं रथन्तरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथन्तरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथन्तरसामानम् । ज्योतिषमग्निष्टोमं बृहत्सामानम् १०

11 एवंविहितांश्चतुरोऽभिप्लवानुपयन्ति पृष्ट्यं षडहं ...{Loading}...

एवंविहितांश्चतुरोऽभिप्लवानुपयन्ति । पृष्ट्यं षडहं समासे ११

12 एवं विहितान्पञ्च मासानुपयन्ति ...{Loading}...

एवं विहितान्पञ्च मासानुपयन्ति १२

13 ततः सम्भार्यम् ...{Loading}...

ततः सम्भार्यम् १३

14 त्रीनभिप्लवान् पृष्ट्यं षडहम् ...{Loading}...

त्रीनभिप्लवान् । पृष्ट्यं षडहम् । अभिजितमग्निष्टोमम् । त्रीन्परःसाम्न उक्थ्यानग्निष्टोमान्वा । परे द्वे शये अहनी १४

15 इति षण्मासाः ...{Loading}...

इति षण्मासाः १५

16 ततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमन् दिवाकीर्त्यसामानम् ...{Loading}...

ततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमं दिवाकीर्त्यसामानम् १६

17 तस्योदित आदित्ये प्रातरनुवाकमुपाकरोति ...{Loading}...

तस्योदित आदित्ये प्रातरनुवाकमुपाकरोति १७

18 दिवाकीर्त्यमेतदहर्भवति ...{Loading}...

दिवाकीर्त्यमेतदहर्भवति १८

19 उत्तरे पक्ष आवृत्ता ...{Loading}...

उत्तरे पक्ष आवृत्ता गणा अन्यत्र द्वादशाहीयाद्दशरात्रात् १९

20 ततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति अग्निष्टोमान्वा ...{Loading}...

ततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति । अग्निष्टोमान्वा २०

21 विश्वजितमग्निष्टोमम् ...{Loading}...

विश्वजितमग्निष्टोमम् २१

22 तानि चत्वारि शयान्यहानि ...{Loading}...

तानि चत्वारि शयान्यहानि २२

23 आवृत्तम् पृष्ट्यं षडहमुपेत्य ...{Loading}...

आवृत्तं पृष्ट्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे २३

24 एवंविहितान्पञ्च मासानुपयन्ति ...{Loading}...

एवंविहितान्पञ्च मासानुपयन्ति २४

इति पञ्चदशी कण्डिका


  1. TS VII.4.8.1-2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. the eight day in the Black Fortnight of the Māgha-month. ↩︎ ↩︎

  3. See Sūtra 9 above. ↩︎