01 गवामयनेन प्रजाम् भूतिम् …{Loading}…
गवामयनेन प्रजां भूतिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति १
थिते
- By means of Gavāmayana the performers reach (obtain) progeny, prosperity and amplitude; win the heaven; (and) become established in these worlds.
गवामयनेन प्रजां भूतिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति १
02 तस्य द्वादशाहेन सत्त्रभूतेन …{Loading}…
तस्य द्वादशाहेन सत्त्रभूतेन कल्पो व्याख्यातः २
थिते
- The ritual of it is explained by the Dvādaśāha performed as a Sattra (sacrificial session).
तस्य द्वादशाहेन सत्त्रभूतेन कल्पो व्याख्यातः २
03 सप्तदशैके दीक्षाः समामनन्ति …{Loading}…
सप्तदशैके दीक्षाः समामनन्ति ३
थिते
- According to some there should be seventeen Dīkṣā (-days).
सप्तदशैके दीक्षाः समामनन्ति ३
04 संवत्सराय दीक्षिष्यमाणा एकाष्टकायान् …{Loading}…
संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नित्युक्तम् ४
संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नित्युक्तम् ४
05 चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् …{Loading}…
चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ५
थिते
- They should get themselves consecrated four days before the Full-moon-day.1
चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ५
06 माघ्या इत्याश्मरथ्यः चैत्त्र्या …{Loading}…
माघ्या इत्याश्मरथ्यः । चैत्त्र्या इत्यालेखनः ६
थिते
- According to Āśmarathya (this is in connection with the Full-moon-day) of Māgha; according to Ālekhana of Caitra.
माघ्या इत्याश्मरथ्यः । चैत्त्र्या इत्यालेखनः ६
07 समानमा प्रायणीयात् …{Loading}…
समानमा प्रायणीयात् ७
थिते
- (Everything) upto the Prāyaṇīya should be the same (as in the Dvādaśāha).
समानमा प्रायणीयात् ७
08 प्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुकथ्यमारम्भणीयमुपयन्ति …{Loading}…
प्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुकथ्यमारम्भणीयमुपयन्ति ८
थिते
- Having performed an Atirātra (sacrifice) on the Prāyaṇīya-day, they perform an Ukthya with twenty-four versed stoma as the Ārambhaṇīya (beginning-day).
प्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुकथ्यमारम्भणीयमुपयन्ति ८
09 ते द्वे शये …{Loading}…
ते द्वे शये अहनी भवतः ९
थिते
- Both these days remain reserved (at the time of calculation).
ते द्वे शये अहनी भवतः ९
10 अथाभिप्लवं षडहमुपयन्ति ज्योतिषमग्निष्टोमं …{Loading}…
अथाभिप्लवं षडहमुपयन्ति । ज्योतिषमग्निष्टोमं रथन्तरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथन्तरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथन्तरसामानम् । ज्योतिषमग्निष्टोमं बृहत्सामानम् १०
थिते
- Then they perform an Abhiplava-Pr̥ṣṭhya-six-day-rite (in the following manner): 1. Jyotiragniṣṭoma the first Pr̥ṣṭhastotra of which is sung on the Rathantara Sāman; 2. Go Ukthya the first…1 on the Br̥hat; 3. Ayur-Ukthya the first…1 on the Rathantara-sāman; 4. Go-Ukthya the first… on the Br̥hat sāman; 5. Āyur-Ukthya the first… on the Rathantara-sāman; 6. Jyotir-Agniṣṭoma the first… on the Br̥hat-Sāman.
अथाभिप्लवं षडहमुपयन्ति । ज्योतिषमग्निष्टोमं रथन्तरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथन्तरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथन्तरसामानम् । ज्योतिषमग्निष्टोमं बृहत्सामानम् १०
11 एवंविहितांश्चतुरोऽभिप्लवानुपयन्ति पृष्ट्यं षडहं …{Loading}…
एवंविहितांश्चतुरोऽभिप्लवानुपयन्ति । पृष्ट्यं षडहं समासे ११
थिते
- They perform the four Abhiplavas prescribed in this manner; then the Pr̥ṣṭhya-ṣaḍaha (six-days)-rite; that makes one month.1
एवंविहितांश्चतुरोऽभिप्लवानुपयन्ति । पृष्ट्यं षडहं समासे ११
12 एवं विहितान्पञ्च मासानुपयन्ति …{Loading}…
एवं विहितान्पञ्च मासानुपयन्ति १२
थिते
- Thus they perform five months prescribed in this manner.
एवं विहितान्पञ्च मासानुपयन्ति १२
13 ततः सम्भार्यम् …{Loading}…
ततः सम्भार्यम् १३
थिते
- Then (they perform a month which is) “to be carried together" (in the following manner).
ततः सम्भार्यम् १३
14 त्रीनभिप्लवान् पृष्ट्यं षडहम् …{Loading}…
त्रीनभिप्लवान् । पृष्ट्यं षडहम् । अभिजितमग्निष्टोमम् । त्रीन्परःसाम्न उक्थ्यानग्निष्टोमान्वा । परे द्वे शये अहनी १४
त्रीनभिप्लवान् । पृष्ट्यं षडहम् । अभिजितमग्निष्टोमम् । त्रीन्परःसाम्न उक्थ्यानग्निष्टोमान्वा । परे द्वे शये अहनी १४
15 इति षण्मासाः …{Loading}…
इति षण्मासाः १५
थिते
- Thus are the (first) six months.
इति षण्मासाः १५
16 ततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमन् दिवाकीर्त्यसामानम् …{Loading}…
ततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमं दिवाकीर्त्यसामानम् १६
थिते
- Then they perform the Visuvat- (middle) day which should be an Agnistoma-sacrifice with twenty-one-versed stoma and the Divakirtya-saman as the first Pr̥ṣṭha-Stotra.1
ततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमं दिवाकीर्त्यसामानम् १६
17 तस्योदित आदित्ये प्रातरनुवाकमुपाकरोति …{Loading}…
तस्योदित आदित्ये प्रातरनुवाकमुपाकरोति १७
थिते
- (The Adhvaryu) bespeaks the morning-litany (Prātaranuvāka) of it, after the sun is risen.
तस्योदित आदित्ये प्रातरनुवाकमुपाकरोति १७
18 दिवाकीर्त्यमेतदहर्भवति …{Loading}…
दिवाकीर्त्यमेतदहर्भवति १८
थिते
- This day is a Divākīrtya-day.1
दिवाकीर्त्यमेतदहर्भवति १८
19 उत्तरे पक्ष आवृत्ता …{Loading}…
उत्तरे पक्ष आवृत्ता गणा अन्यत्र द्वादशाहीयाद्दशरात्रात् १९
थिते
- In the second part (=second half of the year), there should be the groups of days in the reverse order except the Daśarātra-period-days of the Dvādaśāha-rite.1
उत्तरे पक्ष आवृत्ता गणा अन्यत्र द्वादशाहीयाद्दशरात्रात् १९
20 ततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति अग्निष्टोमान्वा …{Loading}…
ततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति । अग्निष्टोमान्वा २०
थिते
- (They) then perform the three Svarasāman-days with “Sāman turned hitherwards” as the Ukthya-sacrifices or Agniṣṭoma-sacrifices and
ततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति । अग्निष्टोमान्वा २०
21 विश्वजितमग्निष्टोमम् …{Loading}…
विश्वजितमग्निष्टोमम् २१
थिते
- a Viśvajit-day as Agniṣṭoma;
विश्वजितमग्निष्टोमम् २१
22 तानि चत्वारि शयान्यहानि …{Loading}…
तानि चत्वारि शयान्यहानि २२
थिते
- these four days remain reserved (at the time of calculation).
तानि चत्वारि शयान्यहानि २२
23 आवृत्तम् पृष्ट्यं षडहमुपेत्य …{Loading}…
आवृत्तं पृष्ट्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे २३
थिते
- Then having performed the Pr̥ṣṭhya-ṣaḍaha in the reverse order, they perform four Abhiplava-ṣaḍahas also in the reverse order; that makes one month.
आवृत्तं पृष्ट्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे २३
24 एवंविहितान्पञ्च मासानुपयन्ति …{Loading}…
एवंविहितान्पञ्च मासानुपयन्ति २४
थिते
- They perform five months prescribed in this manner.
एवंविहितान्पञ्च मासानुपयन्ति २४
इति पञ्चदशी कण्डिका