१४

01 त्र्यनीकां व्याख्यास्यामः …{Loading}…

त्र्यनीकां व्याख्यास्यामः १

02 ऐन्द्रवायवाग्नौ प्रायणीयोदयनीयौ दशमञ् …{Loading}…

ऐन्द्रवायवाग्नौ प्रायणीयोदयनीयौ दशमं चाहः २

03 अथेतरेषान् नवानामैन्द्रवायवाग्रम् प्रथममहः …{Loading}…

अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रम् । अथाग्रयणाग्रम् ३

04 एवंविहिता त्रिस्त्र्यनीका परिवर्तते …{Loading}…

एवंविहिता त्रिस्त्र्यनीका परिवर्तते यद्यव्यूढः ४

05 व्यूढे त्वैन्द्रवायवाग्रौ प्रायणीयोदयनीयौ …{Loading}…

व्यूढे त्वैन्द्रवायवाग्रौ प्रायणीयोदयनीयौ । अथेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रम् । अथ द्वे आग्रयणाग्रे । अथैन्द्रवायवाग्रम् । अथ द्वे शुक्राग्रे । अथाग्रयणाग्रम् । अथ द्वे ऐन्द्रवायवाग्रे ५

06 अथ पशुकॢप्तिः …{Loading}…

अथ पशुकॢप्तिः ६

07 आग्नेयम् प्रायणीय आलभन्ते …{Loading}…

आग्नेयं प्रायणीय आलभन्ते । श्वो भूते सारस्वतीं मेषीम् ७

08 एवंविहितानैकादशिनानन्वहमालभन्ते …{Loading}…

एवंविहितानैकादशिनानन्वहमालभन्ते ८

09 आग्नेयमुदयनीये ऐन्द्राग्नं वा …{Loading}…

आग्नेयमुदयनीये । ऐन्द्राग्नं वा ९

10 सौर्यम् ब्रह्मवर्चसकामः …{Loading}…

सौर्यं ब्रह्मवर्चसकामः १०

11 यदि यूपैकादशिनी स्यादन्वहमेकैकशो …{Loading}…

यदि यूपैकादशिनी स्यादन्वहमेकैकशो यूपान्सम्मिनुयात् । सर्वान्वौपवसथ्ये ११

12 अहरहरुपशय उपावर्तते …{Loading}…

अहरहरुपशय उपावर्तते १२

13 अग्निष्ठ उदयनीये पशुमुपाकरोति …{Loading}…

अग्निष्ठ उदयनीये पशुमुपाकरोति १३

14 द्वादशाग्निष्टोमा रथन्तरसामानः …{Loading}…

द्वादशाग्निष्टोमा रथन्तरसामानः १४

15 स भरतद्वादशाहः …{Loading}…

स भरतद्वादशाहः १५

इति चतुर्दशी कण्डिका


  1. i.e literally, group of three; the twelve days divided into groups of three. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎