१३

01 प्रायणीयवदुदयनीयमुपयन्ति …{Loading}…

प्रायणीयवदुदयनीयमुपयन्ति १

02 नात्राहीनसन्ततयो भवन्ति …{Loading}…

नात्राहीनसन्ततयो भवन्ति २

03 यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते …{Loading}…

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते ता अहीनसन्ततयः ३

04 सत्त्रञ् चेद्वपनकाले सशिखानि …{Loading}…

सत्त्रं चेद्वपनकाले सशिखानि वपन्ते ४

05 उदवसानीययेष्ट्वान्यानृत्विजो वृत्वा पृष्ठशमनीयेन …{Loading}…

उदवसानीययेष्ट्वान्यानृत्विजो वृत्वा पृष्ठशमनीयेन यजन्ते ज्योतिष्टोमेनाग्निष्टोमेन सहस्रदक्षिणेन ५

06 अथ ग्रहकॢप्तिः …{Loading}…

अथ ग्रहकॢप्तिः ६

07 प्रायणीयोदयनीययोर्दशमेऽहन्निति पृश्निप्राणग्रहान्गृह्णाति व्यतिषङ्गं …{Loading}…

प्रायणीयोदयनीययोर्दशमेऽहन्निति पृश्निप्राणग्रहान्गृह्णाति । व्यतिषङ्गं सोममानैः ७

08 प्राकृतं यजुर्मानमनुद्रुत्य वायुरसि …{Loading}…

प्राकृतं यजुर्मानमनुद्रुत्य वायुरसि प्राणो नामेति दशभिः पृश्निग्रहाणां मन्त्रैर्दश मानानि मिमीते ८

09 उत्तरं यजुर्मानमनुद्रुत्यायम् पुरो …{Loading}…

उत्तरं यजुर्मानमनुद्रुत्यायं पुरो भुव इति दशभिः प्राणग्रहाणां मन्त्रैर्दश मानानि मिमीते ९

10 एवमुत्तराणि मानानि व्यतिषजति …{Loading}…

एवमुत्तराणि मानानि व्यतिषजति १०

11 नवनवांशवो दश मन्त्राः …{Loading}…

नवनवांशवो दश मन्त्राः ११

12 अपि वा नवभिर्नवभिर्मिमीते …{Loading}…

अपि वा नवभिर्नवभिर्मिमीते १२

13 अवशिष्टा विकल्पार्थाः …{Loading}…

अवशिष्टा विकल्पार्थाः १३

14 अपि वा मानमनुद्रुत्य …{Loading}…

अपि वा मानमनुद्रुत्य पृश्नी अथ प्राणेन निवपेत् १४

15 अथ प्राणम् मानम् …{Loading}…

अथ प्राणं मानं पृश्निभ्यां निवपेत् १५

16 अथ पृश्नी प्राणम् …{Loading}…

अथ पृश्नी प्राणं मानेन निवपेत् १६

17 एवं विहितावुत्तरौ पर्यायौ …{Loading}…

एवं विहितावुत्तरौ पर्यायौ १७

18 यः प्रथमः स …{Loading}…

यः प्रथमः स चतुर्थः । यो द्वितीयः स पञ्चमः १८

19 नवनवांशून्गृह्णाति …{Loading}…

नवनवांशून्गृह्णाति १९

20 उत्तरेषु त्रिषु पृष्ठाहःसु …{Loading}…

उत्तरेषु त्रिषु पृष्ठाहःसु त्रीनतिग्राह्यान्गृह्णाति आग्नेयमेकविंश ऐन्द्रं त्रिणवे सौर्यं त्रयस्त्रिंशे २०

21 पूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति …{Loading}…

पूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति २१

22 यत्र गौरिवीतं साम …{Loading}…

यत्र गौरिवीतं साम तद्बहूनतिग्राह्यान्गृह्णाति २२

इति त्रयोदशी कण्डिका


  1. Cf. XXI.5.1-6.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. These are scooped with TS IV.3.2.a. ↩︎ ↩︎