१२

01 अकुशलो वा अयम् ...{Loading}...

अकुशलो वा अयं प्रजापतिर्यो दंशमशकान्ससृजे य स्तेनानिति प्रजापतिपरिवादः १

02 अपि वा प्रजापतिपरिवादान्मन्त्रानधीयते ...{Loading}...

अपि वा प्रजापतिपरिवादान्मन्त्रानधीयते २

03 ते प्रत्येतव्याः यदरण्यानि ...{Loading}...

ते प्रत्येतव्याः । यदरण्यानि प्रजापतिः पुरश्च ससृजे गिरीन् । कर्तानि च न तद्भद्रं यद्भद्रं तन्म आसुव । यदूषा तमसा युक्ता दिने तेक्ष्णिष्ठमातपत् । अम्भश्चात्यति घर्मश्च तथा तप्ते प्रजापतेः । यत्स्तेनान्यद्वृकान्दंशान्मशकान्यदघायवः । तदु ते वृजिनं त्वेतद्व्रतमेतन्न मे मतम् । प्रजापतिं दशममहर्भजध्वं मतिं कवीनामृषभं जनानाम् । स सुष्टुतिं सुद्रविणं दधानः पूतो विपाप्मा विजहाति लोक इति ३

04 अथ वरं वृणीतेऽदो ...{Loading}...

अथ वरं वृणीतेऽदो नोऽस्त्विति यत्कामयते । उत वै ब्राह्मणोऽनेककामो भवति ४

05 भूर्भुवः सुवः सुप्रजाः ...{Loading}...

भूर्भुवः सुवः सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः ह्पोषैरित्येतद्विदधाति ५

06 चतुर्होतॄन्व्याख्याय द्वारौ संवृत्य ...{Loading}...

चतुर्होतॄन्व्याख्याय द्वारौ संवृत्य यथाधिष्णियं पत्नीर्व्यासाद्याथाभ्यो वाचमुपाकरोति ६

07 इह धृतिरिह स्वधृतिरिह ...{Loading}...

इह धृतिरिह स्वधृतिरिह रन्तिरिह रमतिरित्यौदुम्बरीं परिष्वज्योदरैरुपस्पृशन्तो वाग्यतास्तिष्ठन्ति ७

08 अधिवृक्षसूर्ये प्राञ्चः समन्वारब्धाः ...{Loading}...

अधिवृक्षसूर्ये प्राञ्चः समन्वारब्धाः सर्पन्ति ८

09 युवन् तमिन्द्रापर्वता पुरोयुधा ...{Loading}...

युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तन्तमिद्धतं वज्रेण तन्तमिद्धतम् । दूरे चत्ताय छन्त्सद्गहनं यदिनक्षत् । अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इत्युत्तरेण हविर्धानं दक्षिणैर्हस्तैः कटांस्तेजनीर्वा निषेवमाणाः प्राञ्चो गत्वा पञ्च वचांसि व्याहरन्ति वाग्वागैतु वागुपैतु वाक् समैतूप मैतु वाग्भूर्भुवः सुवरिति ९

10 अह्ना रात्रिन् ध्यात्वाधिवृक्षसूर्ये ...{Loading}...

अह्ना रात्रिं ध्यात्वाधिवृक्षसूर्ये सुब्रह्मण्यया वाचं विसृज्यौदुम्बरीः समिध आदधाति १०

11 सन्तिष्ठते दशममहः ...{Loading}...

सन्तिष्ठते दशममहः ११

इति द्वादशी कण्डिका


  1. Cf. JB III.306; cp. KB XXVII; ŚB IV.6.9.23. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. These formulae occur only here. ↩︎