११

01 यद्दशहोतारः सत्त्रमासत केन ...{Loading}...

यद्दशहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केन प्रजा असृजन्तेति १

02 प्रजापतिना वै ते ...{Loading}...

प्रजापतिना वै ते गृहपतिनार्ध्नुवंस्तेन प्रजा असृजन्तेति प्रतिवचनः २

03 ब्रह्मा पृच्छति यच्चतुर्होतारः ...{Loading}...

ब्रह्मा पृच्छति यच्चतुर्होतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनौषधीरसृजन्तेति ३

04 सोमेन वै ते ...{Loading}...

सोमेन वै ते गृहपतिनार्ध्नुवंस्तेनौषधीरसृजन्तेति प्रतिवचनः ४

05 होता पृच्छति यत्पञ्चहोतारः ...{Loading}...

होता पृच्छति यत्पञ्चहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनैभ्यो लोकेभ्यो ऽसुरान्प्राणुदन्त केनैषां पशूनवृञ्जतेति ५

06 अग्निना वै ते ...{Loading}...

अग्निना वै ते गृहपतिनार्ध्नुवंस्तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त तेनैषां पशूनवृञ्जतेति प्रतिवचनः ६

07 होत्रकाः पृच्छन्ति यत्षड्ढोतारः ...{Loading}...

होत्रकाः पृच्छन्ति यत्षड्ढोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनर्तूनकल्पयन्तेति ७

08 धात्रा वै ते ...{Loading}...

धात्रा वै ते गृहपतिनार्ध्नुवंस्तेनर्तूनकल्पयन्तेति प्रतिवचनः ८

09 उद्गाता पृच्छति यत्सप्तहोतारः ...{Loading}...

उद्गाता पृच्छति यत्सप्तहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केन सुवरायन्केनेमांल्लोकान्समतन्वन्निति ९

10 अर्यम्णा वै ते ...{Loading}...

अर्यम्णा वै ते गृहपतिनार्ध्नुवंस्तेन सुवरायंस्तेनेमांल्लोकान्समतन्वन्निति प्रतिवचनः १०

11 अपि वा यदे ...{Loading}...

अपि वा यदे वैतत्तुष्णीकं मानसं तस्यैष वादः ११

12 यद्वा होता चतुर्होतॄन्व्याचष्टे ...{Loading}...

यद्वा होता चतुर्होतॄन्व्याचष्टे १२

13 प्रजापतिम् परिवदन्तीति विज्ञायते ...{Loading}...

प्रजापतिं परिवदन्तीति विज्ञायते १३

इत्येकादशी कण्डिका


  1. TMB IV.9.14. ↩︎