१०

01 ततः प्राजापत्याय मनोग्रहाय ...{Loading}...

ततः प्राजापत्याय मनोग्रहाय सम्प्रसर्पन्ति १

02 प्रसृप्तेषूपांशुपात्रेण गृह्णात्यनया त्वा ...{Loading}...

प्रसृप्तेषूपांशुपात्रेण गृह्णात्यनया त्वा पृथिव्या पात्रेण समुद्रं रसया प्रजापतये जुष्टं गृह्णामीति २

03 आकाशाद्गृह्णीयादित्येकम् तार्तीयसवनिकस्य सोमस्य ...{Loading}...

आकाशाद्गृह्णीयादित्येकम् । तार्तीयसवनिकस्य सोमस्य परिशाययेद्यावन्तमेकस्मै चमसगणाय सग्रहायाप्तं मन्येतेत्यपरम् ३

04 मनसा स्तोत्रोपाकरणः प्रस्ताव ...{Loading}...

मनसा स्तोत्रोपाकरणः प्रस्ताव उद्गीथः प्रतिहारश्च ४

05 मनसा तिसृणां सर्पराज्ञीनां ...{Loading}...

मनसा तिसृणां सर्पराज्ञीनां षट्कृत्वः प्रतिगृणाति यद्यर्धर्चशः शंसति । नवकृत्वो यदि पच्छः ५

06 होता चतुर्होतॄन्व्याचष्टे ...{Loading}...

होता चतुर्होतॄन्व्याचष्टे ६

07 ओमिति दशहोतुः प्रतिगरः ...{Loading}...

ओमिति दशहोतुः प्रतिगरः । तथेति चतुर्होतुः । ओमिति पञ्चहोतुः । तथेति षड्ढोतुः । अरात्स्म होतरिति सप्तहोतुः ७

08 मनसाश्रुतप्रत्याश्रुते याज्या वषट्कारानुवषट्कारौ ...{Loading}...

मनसाश्रुतप्रत्याश्रुते याज्या वषट्कारानुवषट्कारौ च ८

09 मनसा हुत्वा हरति ...{Loading}...

मनसा हुत्वा हरति भक्षम् ९

10 ते यत्समीक्षन्ते स ...{Loading}...

ते यत्समीक्षन्ते स समुपहवः १०

11 मनसा भक्षयन्ति ...{Loading}...

मनसा भक्षयन्ति ११

12 ब्रह्मवाद्यं वदन्तीति विज्ञायते ...{Loading}...

ब्रह्मवाद्यं वदन्तीति विज्ञायते १२

13 विनिविश्य कथा स्यादित्येकम् ...{Loading}...

विनिविश्य कथा स्यादित्येकम् । गृहपतिमेव महर्त्विजः पर्युपविश्य पृच्छेयुरित्यपरम् १३

14 तमध्वर्युः पृच्छति ...{Loading}...

तमध्वर्युः पृच्छति १४

इति दशमी कण्डिका


  1. For this see the next Sūtra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The source of this formula is not known. ↩︎ ↩︎