१०

01 ततः प्राजापत्याय मनोग्रहाय …{Loading}…

ततः प्राजापत्याय मनोग्रहाय सम्प्रसर्पन्ति १

02 प्रसृप्तेषूपांशुपात्रेण गृह्णात्यनया त्वा …{Loading}…

प्रसृप्तेषूपांशुपात्रेण गृह्णात्यनया त्वा पृथिव्या पात्रेण समुद्रं रसया प्रजापतये जुष्टं गृह्णामीति २

03 आकाशाद्गृह्णीयादित्येकम् तार्तीयसवनिकस्य सोमस्य …{Loading}…

आकाशाद्गृह्णीयादित्येकम् । तार्तीयसवनिकस्य सोमस्य परिशाययेद्यावन्तमेकस्मै चमसगणाय सग्रहायाप्तं मन्येतेत्यपरम् ३

04 मनसा स्तोत्रोपाकरणः प्रस्ताव …{Loading}…

मनसा स्तोत्रोपाकरणः प्रस्ताव उद्गीथः प्रतिहारश्च ४

05 मनसा तिसृणां सर्पराज्ञीनां …{Loading}…

मनसा तिसृणां सर्पराज्ञीनां षट्कृत्वः प्रतिगृणाति यद्यर्धर्चशः शंसति । नवकृत्वो यदि पच्छः ५

06 होता चतुर्होतॄन्व्याचष्टे …{Loading}…

होता चतुर्होतॄन्व्याचष्टे ६

07 ओमिति दशहोतुः प्रतिगरः …{Loading}…

ओमिति दशहोतुः प्रतिगरः । तथेति चतुर्होतुः । ओमिति पञ्चहोतुः । तथेति षड्ढोतुः । अरात्स्म होतरिति सप्तहोतुः ७

08 मनसाश्रुतप्रत्याश्रुते याज्या वषट्कारानुवषट्कारौ …{Loading}…

मनसाश्रुतप्रत्याश्रुते याज्या वषट्कारानुवषट्कारौ च ८

09 मनसा हुत्वा हरति …{Loading}…

मनसा हुत्वा हरति भक्षम् ९

10 ते यत्समीक्षन्ते स …{Loading}…

ते यत्समीक्षन्ते स समुपहवः १०

11 मनसा भक्षयन्ति …{Loading}…

मनसा भक्षयन्ति ११

12 ब्रह्मवाद्यं वदन्तीति विज्ञायते …{Loading}…

ब्रह्मवाद्यं वदन्तीति विज्ञायते १२

13 विनिविश्य कथा स्यादित्येकम् …{Loading}…

विनिविश्य कथा स्यादित्येकम् । गृहपतिमेव महर्त्विजः पर्युपविश्य पृच्छेयुरित्यपरम् १३

14 तमध्वर्युः पृच्छति …{Loading}…

तमध्वर्युः पृच्छति १४

इति दशमी कण्डिका


  1. For this see the next Sūtra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The source of this formula is not known. ↩︎ ↩︎