०९

01 ततो दशममहरविवाक्यमुपयन्ति चतुर्विंशमग्निष्टोमं ...{Loading}...

ततो दशममहरविवाक्यमुपयन्ति । चतुर्विंशमग्निष्टोमं रथन्तरसामनम् १

02 नात्र कश्चन कस्मैचनोपहताय ...{Loading}...

नात्र कश्चन कस्मैचनोपहताय व्याहते २

03 ये बाह्या दृशीकवः ...{Loading}...

ये बाह्या दृशीकवः स्युस्ते विब्रूयुः ३

04 यदि तत्र न ...{Loading}...

यदि तत्र न विन्देयुरन्तःसदसाद्व्युच्यम् ४

05 यदि तत्र न ...{Loading}...

यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम् ५

06 तद्व्युच्यमेवेत्यन्ततो वदति ...{Loading}...

तद्व्युच्यमेवेत्यन्ततो वदति ६

07 अनुष्टुभा व्याहेति विज्ञायते ...{Loading}...

अनुष्टुभा व्याहेति विज्ञायते ७

08 अनुष्टुभमुक्त्वाथ तद्ब्रूयात् ...{Loading}...

अनुष्टुभमुक्त्वाथ तद्ब्रूयात् ८

09 यस्मिन्नुपहतः स्यादनुष्टुभा वा ...{Loading}...

यस्मिन्नुपहतः स्यादनुष्टुभा वा एतत्सम्पादयति ९

10 द्वयीरेतदहः समिध आहरन्ति ...{Loading}...

द्वयीरेतदहः समिध आहरन्ति । नित्या औदुम्बरीश्च १०

11 अभ्यादधति नित्याः ...{Loading}...

अभ्यादधति नित्याः ११

12 उत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति ...{Loading}...

उत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति १२

13 अथ समन्वारब्धेषु द्वाभ्याङ् ...{Loading}...

अथ समन्वारब्धेषु द्वाभ्यां गार्हपत्ये जुहोति । अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्वध्वरम् । इह रतिरिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः स्वाहेति १३

14 उपसृजन्धरुणमित्येताभ्यामथाहवनीयङ् गत्वा ...{Loading}...

उपसृजन्धरुणमित्येताभ्यामथाहवनीयं गत्वा १४

15 अतिच्छन्दसोपतिष्ठन्तेऽयं सहस्रमानवो दृशः ...{Loading}...

अतिच्छन्दसोपतिष्ठन्तेऽयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा । ब्रध्नः समीचीरुषसः समैरयत् । अरेपसः समोकसः सचेतसः सरेतसः स्वसरे मन्युमन्तश्चिदाकोरिति १५

इति नवमी कण्डिका


  1. avivākya. This is explained in the next Sūtra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎