01 ततो दशममहरविवाक्यमुपयन्ति चतुर्विंशमग्निष्टोमं …{Loading}…
ततो दशममहरविवाक्यमुपयन्ति । चतुर्विंशमग्निष्टोमं रथन्तरसामनम् १
थिते
- Then they perform the tenth day, “unblameworthy”1. (It should be) an Agniṣṭoma with Rathantara-sāman as the first Pr̥ṣṭha-stotra.
ततो दशममहरविवाक्यमुपयन्ति । चतुर्विंशमग्निष्टोमं रथन्तरसामनम् १
02 नात्र कश्चन कस्मैचनोपहताय …{Loading}…
नात्र कश्चन कस्मैचनोपहताय व्याहते २
थिते
- Here (i.e. on this day) no one blames anyone who has committed any mistake.
नात्र कश्चन कस्मैचनोपहताय व्याहते २
03 ये बाह्या दृशीकवः …{Loading}…
ये बाह्या दृशीकवः स्युस्ते विब्रूयुः ३
थिते
- Those who are outsiders-spectators they may blame.
ये बाह्या दृशीकवः स्युस्ते विब्रूयुः ३
04 यदि तत्र न …{Loading}…
यदि तत्र न विन्देयुरन्तःसदसाद्व्युच्यम् ४
थिते
- If they do not find any one there then the blame may be made from whithin the Sadas.
यदि तत्र न विन्देयुरन्तःसदसाद्व्युच्यम् ४
05 यदि तत्र न …{Loading}…
यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम् ५
थिते
- If they do not find any one there to blame, the act of blaming may be done by the Gr̥hapati.
यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम् ५
06 तद्व्युच्यमेवेत्यन्ततो वदति …{Loading}…
तद्व्युच्यमेवेत्यन्ततो वदति ६
थिते
- (A Brāhmaṇa-text) finally says that the act of blaming should nevertheless be done.1
तद्व्युच्यमेवेत्यन्ततो वदति ६
07 अनुष्टुभा व्याहेति विज्ञायते …{Loading}…
अनुष्टुभा व्याहेति विज्ञायते ७
थिते
- It is known (from a Brāhumaṇa text)1 that one show blame (a mistake) by means of a verse in Anuṣṭubh (metre).
अनुष्टुभा व्याहेति विज्ञायते ७
08 अनुष्टुभमुक्त्वाथ तद्ब्रूयात् …{Loading}…
अनुष्टुभमुक्त्वाथ तद्ब्रूयात् ८
थिते
- Having uttered a (verse in) Anustubh (metre), one should declare that in which someone has committed a mistake;
अनुष्टुभमुक्त्वाथ तद्ब्रूयात् ८
09 यस्मिन्नुपहतः स्यादनुष्टुभा वा …{Loading}…
यस्मिन्नुपहतः स्यादनुष्टुभा वा एतत्सम्पादयति ९
थिते
- one indeed accomplishes (corrects) it by means of a (verse in) Anuṣṭubh (metre).1
यस्मिन्नुपहतः स्यादनुष्टुभा वा एतत्सम्पादयति ९
10 द्वयीरेतदहः समिध आहरन्ति …{Loading}…
द्वयीरेतदहः समिध आहरन्ति । नित्या औदुम्बरीश्च १०
थिते
- On these two days they bring faggots of two types: the usual ones and those of Udumbara-tree.
द्वयीरेतदहः समिध आहरन्ति । नित्या औदुम्बरीश्च १०
11 अभ्यादधति नित्याः …{Loading}…
अभ्यादधति नित्याः ११
थिते
- They throw the usual ones (in the Āhavanīya-fire).1
अभ्यादधति नित्याः ११
12 उत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति …{Loading}…
उत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति १२
थिते
- They keep the faggots of the Udumbara-tree near the Āhavanīya, towards the north of it.1
उत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति १२
13 अथ समन्वारब्धेषु द्वाभ्याङ् …{Loading}…
अथ समन्वारब्धेषु द्वाभ्यां गार्हपत्ये जुहोति । अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्वध्वरम् । इह रतिरिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः स्वाहेति १३
थिते
- Then while the others hold him from behind, (the Adhvaryu) makes libations (of ghee) in the Gārhapatya-fire
अथ समन्वारब्धेषु द्वाभ्यां गार्हपत्ये जुहोति । अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्वध्वरम् । इह रतिरिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः स्वाहेति १३
14 उपसृजन्धरुणमित्येताभ्यामथाहवनीयङ् गत्वा …{Loading}…
उपसृजन्धरुणमित्येताभ्यामथाहवनीयं गत्वा १४
थिते
- with two (formulae) beginning with amūryā yanti and upasr̥jan dharuṇam.1
उपसृजन्धरुणमित्येताभ्यामथाहवनीयं गत्वा १४
15 अतिच्छन्दसोपतिष्ठन्तेऽयं सहस्रमानवो दृशः …{Loading}…
अतिच्छन्दसोपतिष्ठन्तेऽयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा । ब्रध्नः समीचीरुषसः समैरयत् । अरेपसः समोकसः सचेतसः सरेतसः स्वसरे मन्युमन्तश्चिदाकोरिति १५
थिते
- Then having gone to the Āhavanīya they praise it with a verse in Aticchandas (-metre beginning with) sahasramānavo dr̥śaḥ.1
अतिच्छन्दसोपतिष्ठन्तेऽयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा । ब्रध्नः समीचीरुषसः समैरयत् । अरेपसः समोकसः सचेतसः सरेतसः स्वसरे मन्युमन्तश्चिदाकोरिति १५
इति नवमी कण्डिका