०८

01 अगृहीतो माहेन्द्रः ...{Loading}...

अगृहीतो माहेन्द्रः १

02 अथ प्रतिप्रस्थातोत्तरेणाग्नीध्रमुदीचीन् तन्तिं ...{Loading}...

अथ प्रतिप्रस्थातोत्तरेणाग्नीध्रमुदीचीं तन्तिं वितत्य तस्यां वत्सान्बध्नाति २

03 दक्षिणेन मार्जालीयम् मातॄरुपरुन्धन्ति ...{Loading}...

दक्षिणेन मार्जालीयं मातॄरुपरुन्धन्ति ३

04 बर्हिःस्थाने ऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति ...{Loading}...

बर्हिःस्थाने ऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति ४

05 उपाकृतं सामाप्रस्तुतम् भवति ...{Loading}...

उपाकृतं सामाप्रस्तुतं भवति ५

06 अथैतान्वत्सान्मातृभिः संसृज्य सांवाशिनङ् ...{Loading}...

अथैतान्वत्सान्मातृभिः संसृज्य सांवाशिनं कुर्वन्ति ६

07 ता अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनन् ...{Loading}...

ता अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातिविच्छयन्ति ७

08 सन्तिष्ठते पृष्ठ्यः षडहण् ...{Loading}...

सन्तिष्ठते पृष्ठ्यः षडहण् ८

09 संस्थिते घृतम् मधु ...{Loading}...

संस्थिते घृतं मधु वा प्राश्नन्ति ९

10 यथोहुषो वहम् प्रत्यञ्ज्यात्तादृक्तदिति ...{Loading}...

यथोहुषो वहं प्रत्यञ्ज्यात्तादृक्तदिति विज्ञायते १०

11 ततस्त्रींश्छन्दोमानुकथ्यानन्वहमुपयन्ति चतुर्विंशञ् चतुश्चत्वारिंशमष्टाचत्वारिंशमिति ...{Loading}...

ततस्त्रींश्छन्दोमानुकथ्यानन्वहमुपयन्ति । चतुर्विंशं चतुश्चत्वारिंशमष्टाचत्वारिंशमिति ११

12 रथन्तरसामा प्रथमः बृहद्रथन्तरसामा ...{Loading}...

रथन्तरसामा प्रथमः । बृहद्रथन्तरसामा द्वितीयः । बृहत्सामा तृतीयः १२

इत्यष्टमी कण्डिका


  1. Cp. TMB VII.8.13. JB III. 118. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎