०८

01 अगृहीतो माहेन्द्रः …{Loading}…

अगृहीतो माहेन्द्रः १

02 अथ प्रतिप्रस्थातोत्तरेणाग्नीध्रमुदीचीन् तन्तिं …{Loading}…

अथ प्रतिप्रस्थातोत्तरेणाग्नीध्रमुदीचीं तन्तिं वितत्य तस्यां वत्सान्बध्नाति २

03 दक्षिणेन मार्जालीयम् मातॄरुपरुन्धन्ति …{Loading}…

दक्षिणेन मार्जालीयं मातॄरुपरुन्धन्ति ३

04 बर्हिःस्थाने ऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति …{Loading}…

बर्हिःस्थाने ऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति ४

05 उपाकृतं सामाप्रस्तुतम् भवति …{Loading}…

उपाकृतं सामाप्रस्तुतं भवति ५

06 अथैतान्वत्सान्मातृभिः संसृज्य सांवाशिनङ् …{Loading}…

अथैतान्वत्सान्मातृभिः संसृज्य सांवाशिनं कुर्वन्ति ६

07 ता अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनन् …{Loading}…

ता अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातिविच्छयन्ति ७

08 सन्तिष्ठते पृष्ठ्यः षडहण् …{Loading}…

सन्तिष्ठते पृष्ठ्यः षडहण् ८

09 संस्थिते घृतम् मधु …{Loading}…

संस्थिते घृतं मधु वा प्राश्नन्ति ९

10 यथोहुषो वहम् प्रत्यञ्ज्यात्तादृक्तदिति …{Loading}…

यथोहुषो वहं प्रत्यञ्ज्यात्तादृक्तदिति विज्ञायते १०

11 ततस्त्रींश्छन्दोमानुकथ्यानन्वहमुपयन्ति चतुर्विंशञ् चतुश्चत्वारिंशमष्टाचत्वारिंशमिति …{Loading}…

ततस्त्रींश्छन्दोमानुकथ्यानन्वहमुपयन्ति । चतुर्विंशं चतुश्चत्वारिंशमष्टाचत्वारिंशमिति ११

12 रथन्तरसामा प्रथमः बृहद्रथन्तरसामा …{Loading}…

रथन्तरसामा प्रथमः । बृहद्रथन्तरसामा द्वितीयः । बृहत्सामा तृतीयः १२

इत्यष्टमी कण्डिका


  1. Cp. TMB VII.8.13. JB III. 118. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎