०७

01 श्वो भूत एकविंशं ...{Loading}...

श्वो भूत एकविंशं षोडशिनं वैराजसामानमुपयन्ति १

02 न्यूङ्ख्यमेतदहर्भवति ...{Loading}...

न्यूङ्ख्यमेतदहर्भवति २

03 बर्हिःस्थानेऽरणीभ्याम् माहेन्द्रस्य स्तोत्रमुपाकरोति ...{Loading}...

बर्हिःस्थानेऽरणीभ्यां माहेन्द्रस्य स्तोत्रमुपाकरोति ३

04 उपाकृतं सामाप्रस्तुतम् भवति ...{Loading}...

उपाकृतं सामाप्रस्तुतं भवति ४

05 अथोद्गातुर्दक्षिणमूरुमवकाभिः प्रच्छाद्य तस्मिन्नग्निम् ...{Loading}...

अथोद्गातुर्दक्षिणमूरुमवकाभिः प्रच्छाद्य तस्मिन्नग्निं मन्थति ५

06 तञ् जातमुद्गाताभिहिङ्कृत्य प्रस्तोत्रे ...{Loading}...

तं जातमुद्गाताभिहिङ्कृत्य प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे ६

07 तमध्वर्युरुत्तरेण धिष्णियान्पर्याहृत्याहवनीये प्रहृत्य ...{Loading}...

तमध्वर्युरुत्तरेण धिष्णियान्पर्याहृत्याहवनीये प्रहृत्य प्रेद्धो अग्ने दीदिहीति विराजाभिजुहोति ७

08 श्वो भूते त्रिणवमुकथ्यं ...{Loading}...

श्वो भूते त्रिणवमुकथ्यं शाक्वरसामानमुपयन्ति ८

09 बर्हिःस्थानेऽद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति ...{Loading}...

बर्हिःस्थानेऽद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति ९

10 उपाकृतं सामाप्रस्तुतम् भवति ...{Loading}...

उपाकृतं सामाप्रस्तुतं भवति १०

11 अथ तिस्रः सहर्षभा ...{Loading}...

अथ तिस्रः सहर्षभा अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातियन्ति ११

12 श्वो भूते त्रयस्त्रिंशमुकथ्यं ...{Loading}...

श्वो भूते त्रयस्त्रिंशमुकथ्यं रैवतसामानमुपयन्ति १२

13 न्यूङ्ख्यमेतदहर्भवति ...{Loading}...

न्यूङ्ख्यमेतदहर्भवति १३

14 स्वयमध्वर्युरृतुयाजं यजति स्वयङ् ...{Loading}...

स्वयमध्वर्युरृतुयाजं यजति । स्वयं गृहपतिः १४

15 अध्वर्यू यजतङ् गृहपते ...{Loading}...

अध्वर्यू यजतं गृहपते यजेत्यभिज्ञायाध्वर्युर्हविर्धानं प्रविश्य प्रैषोत्तरयर्चा यजति । ऋगुत्तरेण वा प्रैषेण १५

16 अश्विना पिबतं सुतन् ...{Loading}...

अश्विना पिबतं सुतं दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा । ऋतुना सोमं पिबतं वौषडिति यद्यव्यूढः १६

17 ब्यूढे त्वर्वाञ्चमद्य यय्यन् ...{Loading}...

ब्यूढे त्वर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् । पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू । ऋतुना सोमं पिबतं वौषडिति तस्य प्रचरितं मरुत्वतीयैर्भवति १७

इति सप्तमी कण्डिका


  1. Cp. V.3.4. Thus the vowels are to be changed into o-sound. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. XXI.14.5. ↩︎ ↩︎