०६

01 तदाग्नीध्र आग्नीध्रागारम् प्रविश्य ...{Loading}...

तदाग्नीध्र आग्नीध्रागारं प्रविश्य सम्प्रेष्यति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपभ्यः सोमं प्रब्रवीमि सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १

02 स वै खलु ...{Loading}...

स वै खलु श्वःसुत्यामिति ब्रूयादित्याश्मरथ्यः । अद्यसुत्यामित्यालेखनः २

03 तत ऊर्ध्वं श्वःसुत्यामित्येव ...{Loading}...

तत ऊर्ध्वं श्वःसुत्यामित्येव ब्रूयात् ३

04 पत्नीसंयाजान्तमहः सन्तिष्ठते ...{Loading}...

पत्नीसंयाजान्तमहः सन्तिष्ठते ४

05 संस्थितेऽहनि ब्रह्मा वाचं ...{Loading}...

संस्थितेऽहनि ब्रह्मा वाचं विसृजते ५

06 परिहरन्ति पत्नीभ्य उदकम् ...{Loading}...

परिहरन्ति पत्नीभ्य उदकम् ६

07 यन्ति समिद्धाराः ...{Loading}...

यन्ति समिद्धाराः ७

08 एत्याहवनीयेऽभ्यादधति ...{Loading}...

एत्याहवनीयेऽभ्यादधति ८

09 एवमहरहः ...{Loading}...

एवमहरहः ९

10 तदानीमेव त्रिवृतमग्निष्टोमं रथन्तरसामानमुपयन्ति ...{Loading}...

तदानीमेव त्रिवृतमग्निष्टोमं रथन्तरसामानमुपयन्ति १०

11 रथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ...{Loading}...

रथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ११

12 शब्दो मन्त्रस्थाने भवति ...{Loading}...

शब्दो मन्त्रस्थाने भवति १२

13 श्वो भूते पञ्चदशमुकथ्यम् ...{Loading}...

श्वो भूते पञ्चदशमुकथ्यं बृहत्सामानमुपयन्ति १३

14 दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ...{Loading}...

दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति १४

15 यद्यु वै स्तनयित्नुः ...{Loading}...

यद्यु वै स्तनयित्नुः स्यात्स एव स्याच्छब्दो मन्त्रस्थाने १५

16 श्वो भूते सप्तदशमुकथ्यं ...{Loading}...

श्वो भूते सप्तदशमुकथ्यं वैरूपसामानमुपयन्ति १६

17 बर्हिः स्थान आधावेन ...{Loading}...

बर्हिः स्थान आधावेन माहेन्द्रस्य स्तोत्रमुपाकरोति १७

18 उपाकृतं सामाप्रस्तुतम् भवति ...{Loading}...

उपाकृतं सामाप्रस्तुतं भवति १८

19 अथोद्गाताधावेनाधूनुते ...{Loading}...

अथोद्गाताधावेनाधूनुते १९

इति षष्ठी कण्डिका


  1. According to Caland this is the Pānnejana-water (See XII.5.3ff) According to the commentator of the SatyāśS this water is for drinking. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp.TMB VII.8.10; JB I.142; III. 118. ↩︎