०५

01 श्वो भूते प्रतायते ...{Loading}...

श्वो भूते प्रतायते ज्योतिष्टोमः १

02 वैश्वानरः प्रायणीयोऽतिरात्रः ...{Loading}...

वैश्वानरः प्रायणीयोऽतिरात्रः २

03 समानमा राज्ञ उपावहरणात् ...{Loading}...

समानमा राज्ञ उपावहरणात् ३

04 यावन्तमेकस्मा अह्न आप्तम् ...{Loading}...

यावन्तमेकस्मा अह्न आप्तं मन्यते ४

05 तमन्यस्मिन्वासस्युपनह्य प्रत्युपनह्येतरमुपावहरति ...{Loading}...

तमन्यस्मिन्वासस्युपनह्य प्रत्युपनह्येतरमुपावहरति ५

06 एवमहरहस्तन्त्रमग्नेर्योगविमोकौ ...{Loading}...

एवमहरहस्तन्त्रमग्नेर्योगविमोकौ ६

07 प्रथमेऽहनि युनक्ति उत्तमे ...{Loading}...

प्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चति ७

08 अन्वहमेके योगविमोकौ समामनन्ति ...{Loading}...

अन्वहमेके योगविमोकौ समामनन्ति ८

09 दक्षिणाकालेऽन्वहन् द्वादशानि शतानि ...{Loading}...

दक्षिणाकालेऽन्वहं द्वादशानि शतानि ददात्यहीने ९

10 सत्त्रे तु दाक्षिणौ ...{Loading}...

सत्त्रे तु दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि धून्वन्त उदञ्चो दक्षिणापथेनातियन्ति १०

11 एवमहरहः ...{Loading}...

एवमहरहः ११

12 उत्तम एवाहनि सख्यानि ...{Loading}...

उत्तम एवाहनि सख्यानि विसृजन्ते १२

13 कृष्णविषाणाश्च प्रविध्यन्ति ...{Loading}...

कृष्णविषाणाश्च प्रविध्यन्ति १३

14 पूर्वस्मिन्नेवाहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियम् ...{Loading}...

पूर्वस्मिन्नेवाहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति १४

15 वर्तमान एवातिरात्र उत्तरस्मा ...{Loading}...

वर्तमान एवातिरात्र उत्तरस्मा अह्ने पयांसि विशास्ति १५

16 यत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां ...{Loading}...

यत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमेपेभ्यः सोमं प्रब्रूतात्सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १६

इति पञ्चमी कण्डिका


  1. Soma is brought down from the cart on the press-stones see XII.3.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XIII.5.11. ↩︎

  3. See XIII.6.8. ↩︎

  4. Cp. KB XV.1. ↩︎