01 श्वो भूते प्रतायते …{Loading}…
श्वो भूते प्रतायते ज्योतिष्टोमः १
थिते
- On the next day Jyotiṣṭoma is performed:
श्वो भूते प्रतायते ज्योतिष्टोमः १
02 वैश्वानरः प्रायणीयोऽतिरात्रः …{Loading}…
वैश्वानरः प्रायणीयोऽतिरात्रः २
थिते
- an introductory Atirātra dedicated to Agni-Vaiśvānara.
वैश्वानरः प्रायणीयोऽतिरात्रः २
03 समानमा राज्ञ उपावहरणात् …{Loading}…
समानमा राज्ञ उपावहरणात् ३
थिते
- Everything upto bringing down1 of king (Soma) is the same (as in the basic paradigm).
समानमा राज्ञ उपावहरणात् ३
04 यावन्तमेकस्मा अह्न आप्तम् …{Loading}…
यावन्तमेकस्मा अह्न आप्तं मन्यते ४
थिते
- Having tied in another cloth as much (Soma-plants) as he (i.e. Adhvaryu) thinks sufficient for one day,
यावन्तमेकस्मा अह्न आप्तं मन्यते ४
05 तमन्यस्मिन्वासस्युपनह्य प्रत्युपनह्येतरमुपावहरति …{Loading}…
तमन्यस्मिन्वासस्युपनह्य प्रत्युपनह्येतरमुपावहरति ५
थिते
- then having again tied (the remaining Soma-plants in the original cloth), he brings it down (on the press-stones).
तमन्यस्मिन्वासस्युपनह्य प्रत्युपनह्येतरमुपावहरति ५
06 एवमहरहस्तन्त्रमग्नेर्योगविमोकौ …{Loading}…
एवमहरहस्तन्त्रमग्नेर्योगविमोकौ ६
थिते
- This happens every day. The acts of yoking and unyoking (of Agni) (are to be done in a joint manner).1
एवमहरहस्तन्त्रमग्नेर्योगविमोकौ ६
07 प्रथमेऽहनि युनक्ति उत्तमे …{Loading}…
प्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चति ७
थिते
- He yokes (the fire) on the first day. He unyokes (it) on the last.
प्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चति ७
08 अन्वहमेके योगविमोकौ समामनन्ति …{Loading}…
अन्वहमेके योगविमोकौ समामनन्ति ८
थिते
- According to some (ritualists), the yoking and unyoking (of the fire) (are to be done) every day.1
अन्वहमेके योगविमोकौ समामनन्ति ८
09 दक्षिणाकालेऽन्वहन् द्वादशानि शतानि …{Loading}…
दक्षिणाकालेऽन्वहं द्वादशानि शतानि ददात्यहीने ९
थिते
- At the time of giving the sacrificial gifts,1 (the sacrificer) gives twelve hundred (cows), in case (the Dvādaśāha is) an Ahīna.
दक्षिणाकालेऽन्वहं द्वादशानि शतानि ददात्यहीने ९
10 सत्त्रे तु दाक्षिणौ …{Loading}…
सत्त्रे तु दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि धून्वन्त उदञ्चो दक्षिणापथेनातियन्ति १०
सत्त्रे तु दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि धून्वन्त उदञ्चो दक्षिणापथेनातियन्ति १०
11 एवमहरहः …{Loading}…
एवमहरहः ११
थिते
- This takes place every-day.
एवमहरहः ११
12 उत्तम एवाहनि सख्यानि …{Loading}…
उत्तम एवाहनि सख्यानि विसृजन्ते १२
थिते
- On the last day they (sacrificers) release their friendship(-bond)s.1
उत्तम एवाहनि सख्यानि विसृजन्ते १२
13 कृष्णविषाणाश्च प्रविध्यन्ति …{Loading}…
कृष्णविषाणाश्च प्रविध्यन्ति १३
थिते
- And throw away horns of black-antelopes.1
कृष्णविषाणाश्च प्रविध्यन्ति १३
14 पूर्वस्मिन्नेवाहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियम् …{Loading}…
पूर्वस्मिन्नेवाहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति १४
थिते
- Every time on the previous day itself (the Adhvaryu) scoops the overnight-water (Vasatīvarī) for the Yajñyayajñiya stoma (performed on the next day).
पूर्वस्मिन्नेवाहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति १४
15 वर्तमान एवातिरात्र उत्तरस्मा …{Loading}…
वर्तमान एवातिरात्र उत्तरस्मा अह्ने पयांसि विशास्ति १५
थिते
- While the Atirātra (ritual) is still being performed he allots the different (portions of)1 milks for the next day.
वर्तमान एवातिरात्र उत्तरस्मा अह्ने पयांसि विशास्ति १५
16 यत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां …{Loading}…
यत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमेपेभ्यः सोमं प्रब्रूतात्सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १६
थिते
- When he recognizes Maitrāvaruṇa (uttering) śvaḥ sutyāmindrāgnibhyām….1,
यत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमेपेभ्यः सोमं प्रब्रूतात्सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १६
इति पञ्चमी कण्डिका