०४

01 परम् मृत्यो अनु …{Loading}…

परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति दक्षिणाग्नौ १

02 इदमू नु श्रेयो …{Loading}…

इदमू नु श्रेयो ऽवसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः । सचतां नः शचीपतिः स्वाहेत्याहवनीये २

03 द्वादशाहन् दीक्षिता भवन्ति …{Loading}…

द्वादशाहं दीक्षिता भवन्ति ३

04 न सनीहारान्प्रहिण्वन्ति सत्त्रे …{Loading}…

न सनीहारान्प्रहिण्वन्ति सत्त्रे ४

05 प्रायणीयया प्रचर्य राजानङ् …{Loading}…

प्रायणीयया प्रचर्य राजानं क्रीत्वोपनह्य निदधाति द्वादशाहायाप्तम् ५

06 षोडशिवत्सोमक्रयणी …{Loading}…

षोडशिवत्सोमक्रयणी ६

07 उपसत्सु द्वादशाहे सम्भारयजूंषि …{Loading}…

उपसत्सु द्वादशाहे सम्भारयजूंषि व्याचष्टे ७

08 यजमानं वाचयतीत्येके …{Loading}…

यजमानं वाचयतीत्येके ८

09 द्वादशोपसदः …{Loading}…

द्वादशोपसदः ९

10 चतुरहञ्चतुरहमेकैकेनोपसन्मन्त्रेण जुहोति …{Loading}…

चतुरहञ्चतुरहमेकैकेनोपसन्मन्त्रेण जुहोति १०

11 अनूपसदमग्निञ् चिनोति …{Loading}…

अनूपसदमग्निं चिनोति ११

12 द्व्यहन्द्व्यहमेकैका चितिः …{Loading}…

द्व्यहन्द्व्यहमेकैका चितिः १२

13 चतुरहमुत्तमा …{Loading}…

चतुरहमुत्तमा १३

14 चतुस्तनन् त्रिस्तनन् द्विस्तनमेकस्तनमिति …{Loading}…

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्र्यहं त्र्यहं व्रतानि १४

15 य एषां व्रतमिच्छेदभिपूरयितुन् …{Loading}…

य एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं स्रुवमुन्नीय नापरमुन्नयेत १५

16 एकविंशतिच्छदिः सदः …{Loading}…

एकविंशतिच्छदिः सदः १६

17 सन्तृणे अधिषवण फलके …{Loading}…

सन्तृणे अधिषवण फलके भवतः १७

18 ऋजुरुपवसथः …{Loading}…

ऋजुरुपवसथः १८

इति चतुर्थी कण्डिका


  1. TB III.7.14.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See X.24.14. ↩︎