०३

01 अन्यो वा ब्राह्मणः …{Loading}…

अन्यो वा ब्राह्मणः १

02 दीक्षित आ तन्त्रीभावादेकैकमपवर्जयति …{Loading}…

दीक्षित आ तन्त्रीभावादेकैकमपवर्जयति २

03 एवमनुपूर्वा एवैषां याजमाना …{Loading}…

एवमनुपूर्वा एवैषां याजमाना धर्मा ये केचाविभविनः ३

04 नानागोत्रव्यवायादेव समानगोत्राणामार्षेयवरणमभ्यावर्तेतेत्येकम् व्यवेतेऽपि …{Loading}…

नानागोत्रव्यवायादेव समानगोत्राणामार्षेयवरणमभ्यावर्तेतेत्येकम् । व्यवेतेऽपि तन्त्रमेवेत्य परम् ४

05 सद्यो दीक्षामेके समामनन्ति …{Loading}…

सद्यो दीक्षामेके समामनन्ति । अन्वहं दीक्षामेके ५

06 द्व्यहे दीक्षेत त्र्यहे …{Loading}…

द्व्यहे दीक्षेत त्र्यहे दीक्षेतेत्येवं क्रामत्या द्वादशाहात् ६

07 उपदीक्षमाणे सर्वं सदीक्षणीयमावर्तेतेत्याश्मरथ्यः …{Loading}…

उपदीक्षमाणे सर्वं सदीक्षणीयमावर्तेतेत्याश्मरथ्यः ७

08 अग्नीनुपन्युप्यात्मसंस्कारेणैव प्रतिपद्येत तन्त्रमाहुतयः …{Loading}…

अग्नीनुपन्युप्यात्मसंस्कारेणैव प्रतिपद्येत तन्त्रमाहुतयः स्युरित्यालेखनः ८

09 पत्नीनामेव स्थाने पत्नीर्दीक्षयन्ति …{Loading}…

पत्नीनामेव स्थाने पत्नीर्दीक्षयन्ति ९

10 तासां याजमानैरेव धर्मानुपूर्व्यं …{Loading}…

तासां याजमानैरेव धर्मानुपूर्व्यं व्याख्यातम् १०

11 अध्वर्युन् दीक्षिता अन्वारभन्ते …{Loading}…

अध्वर्युं दीक्षिता अन्वारभन्ते । दीक्षितान्पत्नयः ११

12 अथ समन्वारब्धेषु गार्हपत्ये …{Loading}…

अथ समन्वारब्धेषु गार्हपत्ये जुहोत्यपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः । सचतां नः शचीपतिः स्वाहेति १२

13 ऋते पत्नीभ्य इतरयोः …{Loading}…

ऋते पत्नीभ्य इतरयोः १३

इति तृतीया कण्डिका


  1. For XXI.2.16-3.1 cf. ŚB XII.1.1.1-10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎