०२

01 सर्व इष्टप्रथमयज्ञाः अपि …{Loading}…

सर्व इष्टप्रथमयज्ञाः । अपि वा गृहपतिरेव १

02 गृहपतेरेव परार्थानि यथा …{Loading}…

गृहपतेरेव परार्थानि यथा यूपाञ्जनमृतुयाज्येति २

03 गृहपतेरेव सामिधेनीकल्पेनावदानकल्पेनेति प्रक्रामेयुर्यानि …{Loading}…

गृहपतेरेव सामिधेनीकल्पेनावदानकल्पेनेति प्रक्रामेयुर्यानि चान्यान्येवंरूपाणि स्युः ३

04 त्वं वरुण इति …{Loading}…

त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया ४

05 आजुहोतेतीतरेषाङ् गोत्राणाम् …{Loading}…

आजुहोतेतीतरेषां गोत्राणाम् ५

06 नाराशंसो द्वितीयः प्रयाजो …{Loading}…

नाराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् ६

07 तनूनपादितरेषाङ् गोत्राणाम् …{Loading}…

तनूनपादितरेषां गोत्राणाम् ७

08 शिशिरे दीक्षन्ते वसन्त …{Loading}…

शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्ति ८

09 शिशिरे वा एतस्य …{Loading}…

शिशिरे वा एतस्य प्रयाणं वसन्त उत्थानम् ९

10 ऋध्नोति य एवंविद्वाञ्शिशिरे …{Loading}…

ऋध्नोति य एवंविद्वाञ्शिशिरे दीक्षते वसन्त उत्तिष्ठत इति विज्ञायते १०

11 षड् व्युष्टाश्चैत्रस्यापूर्यमाणपक्षस्याथ दीक्षेरन् …{Loading}…

षड् व्युष्टाश्चैत्रस्यापूर्यमाणपक्षस्याथ दीक्षेरन् ११

12 सावित्राणि होष्यमाणा निर्मथ्य …{Loading}…

सावित्राणि होष्यमाणा निर्मथ्य सन्निवपेरन् । ततो विनिवपेरन् १२

13 पञ्चपशुभिर्यक्ष्यमाणाः सन्निवपेरन् ततो …{Loading}…

पञ्चपशुभिर्यक्ष्यमाणाः सन्निवपेरन् । ततो विनिवपेरन् १३

14 दीक्षिष्यमाणाः सन्निवपेरन् …{Loading}…

दीक्षिष्यमाणाः सन्निवपेरन् १४

15 तेषामेतत्सन्न्युप्ता एवाग्नयो भवन्त्योदवसानीयायाः …{Loading}…

तेषामेतत्सन्न्युप्ता एवाग्नयो भवन्त्योदवसानीयायाः १५

16 अध्वर्युर्गृहपतिन् दीक्षयित्वा ब्रह्माणन् …{Loading}…

अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति । तत उद्गातारम् । ततो होतारम् १६

17 ततस्तम् प्रतिप्रस्थाता दीक्षयित्वार्धिनो …{Loading}…

ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति १७

18 ततस्तन् नेष्टा दीक्षयित्वा …{Loading}…

ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति १८

19 ततस्तमुन्नेता दीक्षयित्वा पादिनो …{Loading}…

ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति १९

20 ततस्तम् प्रतिप्रस्थाता दीक्षयति …{Loading}…

ततस्तं प्रतिप्रस्थाता दीक्षयति २०

इति द्वितीया कण्डिका


  1. Thus they should have atleast once performed either an Agniṣṭoma or an Atirātra sacrifice. See X.2.3-4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The word ‘Gr̥hapati’ literally means ‘Lord of the house’ and he carries out the work of ‘sacrificer’ in a Sattra and is considered as the chief (mukhya) amongst the performers. Cp. ŚāṅkhāŚS XIII.14.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII.26.7. ↩︎ ↩︎