०१

01 द्वादशाहेन प्रैव जायतेऽभि …{Loading}…

द्वादशाहेन प्रैव जायतेऽभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति १

02 साग्निचित्यो भवति …{Loading}…

साग्निचित्यो भवति २

03 सत्त्रमहीनश्च …{Loading}…

सत्त्रमहीनश्च ३

04 दीक्षितमदीक्षिता याजयेयुरहीने एत …{Loading}…

दीक्षितमदीक्षिता याजयेयुरहीने । एत एवर्त्विजो यजमानश्च सत्त्रे ४

05 तस्माद्द्वादशाहेन न याज्यम् …{Loading}…

तस्माद्द्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्या इति विज्ञायते ५

06 ऋध्नोति यो द्वादशाहेन …{Loading}…

ऋध्नोति यो द्वादशाहेन यजते ६

07 ऋध्नोति यः प्रतिगृह्णातीत्येके …{Loading}…

ऋध्नोति यः प्रतिगृह्णातीत्येके ७

08 ऋत्विजो यजमानञ् चाधिकृत्य …{Loading}…

ऋत्विजो यजमानं चाधिकृत्य वदति ८

09 पीवा दीक्षते कृशो …{Loading}…

पीवा दीक्षते । कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते ९

10 योऽतपस्वी स्यादसंश्लिष्टोऽस्य यज्ञः …{Loading}…

योऽतपस्वी स्यादसंश्लिष्टोऽस्य यज्ञः स्यात् । तपस्वी स्यात् । यज्ञमेव तत्संश्लेषयत इति विज्ञायते १०

11 एको द्वादशाहेन यजेत …{Loading}…

एको द्वादशाहेन यजेत । त्रयः षड् द्वादश त्रयोदश वा ११

12 तेषामुपसत्सु त्रयोदशन् दीक्षयन्ति …{Loading}…

तेषामुपसत्सु त्रयोदशं दीक्षयन्ति १२

13 तस्माद्द्वादशाहे त्रयोदशेन न …{Loading}…

तस्माद्द्वादशाहे त्रयोदशेन न ब्रह्मणा भवितव्यमित्येके १३

14 पञ्चदश दीक्षेरन्नर्धमासायतनाः सप्तदश …{Loading}…

पञ्चदश दीक्षेरन्नर्धमासायतनाः । सप्तदश प्रजाकामाः पशुकामा वा । एकविंशतिं प्रतिष्ठाकामा रुक्कामा वा । त्रिंशतं मासायतनाः । त्रयस्त्रिंशतमोजस्कामा वीर्यकामा वा । चत्वारिंशतं यज्ञकामाः । चतुश्चत्वारिंशतमिन्द्रियकामाः । अष्टाचत्वारिंशतं पशुकामाः १४

15 अपरिमिता दीक्षेरन्नित्यन्ततो वदति …{Loading}…

अपरिमिता दीक्षेरन्नित्यन्ततो वदति १५

16 येऽन्ये सप्तदशभ्यो वादा …{Loading}…

येऽन्ये सप्तदशभ्यो वादा अहीन एव ते स्थानिनः १६

17 सप्तदशानामेव याथाकामी …{Loading}…

सप्तदशानामेव याथाकामी १७

18 सर्वे याजमाने स्थानिनः …{Loading}…

सर्वे याजमाने स्थानिनः १८

19 सर्वे याजमानङ् कुर्युर्यत्किञ्चार्त्विज्येनाविबाधकम् …{Loading}…

सर्वे याजमानं कुर्युर्यत्किञ्चार्त्विज्येनाविबाधकम् १९

20 विबाधमान आर्त्विज्यम् बलीयः …{Loading}…

विबाधमान आर्त्विज्यं बलीयः २०

इति प्रथमा कण्डिका


  1. See TS VII.2.9.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Instead of the word yajamanaśca we should read yajamanaśca (plur. Cf. Caland on this Sūtra). ↩︎