२५

01 सौत्रामण्या मैत्रावरुण्या चामिक्षया ...{Loading}...

सौत्रामण्या मैत्रावरुण्या चामिक्षया साकम्प्रस्थायीयेन पञ्चबिलेन चरुणा पञ्चशारदीयेनेति १

02 पञ्चबिलस्य चरोर्विज्ञायते आज्य ...{Loading}...

पञ्चबिलस्य चरोर्विज्ञायते । आज्य आग्नेयः पूर्वस्मिन्बिले । दधन्यैन्द्रो दक्षिणे । शृते प्रतिदुहि नीतमिश्रे वा वैश्वदेवः पश्चिमे । अप्सु मैत्रावरुण उत्तरे । पयसि बार्हस्पत्यो मध्यमे २

03 सर्वमेधो दशरात्रः ...{Loading}...

सर्वमेधो दशरात्रः ३

04 राजा यजेत यः ...{Loading}...

राजा यजेत यः कामयेत सर्वमिदं भवेयमिति ४

05 एकशतविधोऽग्निः ...{Loading}...

एकशतविधोऽग्निः ५

06 अग्निष्टुदग्निष्टोमः ह्प्रथममहः सर्वमाग्नेयम् ...{Loading}...

अग्निष्टुदग्निष्टोमः ह्प्रथममहः । सर्वमाग्नेयं भवति ६

07 इन्द्रस्तुदुकथ्यो द्वितीयः सर्वमैन्द्रम् ...{Loading}...

इन्द्रस्तुदुकथ्यो द्वितीयः । सर्वमैन्द्रम् ७

08 सूर्यस्तुदुकथ्यस्तृतीयः सर्वं सौर्यम् ...{Loading}...

सूर्यस्तुदुकथ्यस्तृतीयः । सर्वं सौर्यम् ८

09 वैश्वदेव उकथ्यश्चतुर्थः सर्वं ...{Loading}...

वैश्वदेव उकथ्यश्चतुर्थः । सर्वं वैश्वदेवम् ९

10 आश्वमेधिकम् मध्यमम् पञ्चममहः ...{Loading}...

आश्वमेधिकं मध्यमं पञ्चममहः । तस्मिन्नश्वं मेध्यमालभते १०

11 पौरुषमेधिकम् मध्यमं षष्ठम् ...{Loading}...

पौरुषमेधिकं मध्यमं षष्ठम् । तस्मिन्पुरुषान् ११

12 अप्तोर्यामः सप्तमः तस्मिन्सर्वान्मेध्यानालभते ...{Loading}...

अप्तोर्यामः सप्तमः । तस्मिन्सर्वान्मेध्यानालभते १२

13 वपा वपावताञ् जुहोति ...{Loading}...

वपा वपावतां जुहोति । त्वच उत्कृत्यावपानाम् १३

14 शुष्कानार्द्रांश्चौषधिवनस्पतीन्संवृश्च्याहवनीयेऽनुप्रकिरन्ति ...{Loading}...

शुष्कानार्द्रांश्चौषधिवनस्पतीन्संवृश्च्याहवनीयेऽनुप्रकिरन्ति १४

15 प्रातःसवने सन्नेषु नाराशंसेष्वन्नमन्नञ् ...{Loading}...

प्रातःसवने सन्नेषु नाराशंसेष्वन्नमन्नं जुहोति १५

16 सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इति ...{Loading}...

सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इति विज्ञायते १६

17 एवम् माध्यन्दिने तृतीयसवने ...{Loading}...

एवं माध्यन्दिने तृतीयसवने च १७

18 अष्टमन् त्रिणवम् ...{Loading}...

अष्टमं त्रिणवम् १८

19 नवमन् त्रयस्त्रिंशम् ...{Loading}...

नवमं त्रयस्त्रिंशम् १९

20 विश्वजित्सर्वपृष्टोऽतिरात्रो दशममहः ...{Loading}...

विश्वजित्सर्वपृष्टोऽतिरात्रो दशममहः २०

21 दक्षिणाकाले यदब्राह्मणानान् दिक्षु ...{Loading}...

दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्सभूमि सपुरुषं ददाति यथाश्वमेधे यथाश्वमेधे २१

इति पञ्चविंशी कण्डिका इति विंशः प्रश्नः


  1. The text reads ‘ca’. Caland suggests va and compares XVIII.7.15. This suggestion appears to be plausible. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See III.16. 11-17.3. ↩︎

  3. For the details see the next Sūtra. ↩︎

  4. For this see XXII.20.9-21.11. ↩︎

  5. For this Sūtra cp. ŚB XIII.6.2.20. While translating these two Sūtras Caland says that one should enter into the village after having performed Traidhātavīya-offering, This does not appear to be correct. The text reads grāmaṁ vā praviśya i.e. after having entered in the village. ↩︎