२४

01 पञ्चाहः पुरुषमेधः ...{Loading}...

पञ्चाहः पुरुषमेधः १

02 ब्राह्मणो राजन्यो वा ...{Loading}...

ब्राह्मणो राजन्यो वा यजेत २

03 ओजो वीर्यमाप्नोति सर्वा ...{Loading}...

ओजो वीर्यमाप्नोति । सर्वा व्यष्टीर्व्यश्नुते ३

04 एकादशसु यूपेष्वेकादशाग्नीषोमीयाः ...{Loading}...

एकादशसु यूपेष्वेकादशाग्नीषोमीयाः ४

05 पञ्चशारदीयवदहानि अग्निष्टोमो वोपोत्तमः ...{Loading}...

पञ्चशारदीयवदहानि । अग्निष्टोमो वोपोत्तमः ५

06 देव सवितः तत्सवितुः ...{Loading}...

देव सवितः । तत्सवितुः । विश्वानि देव सवितरिति तिस्रः सावित्रीर्हुत्वा मध्यमेऽहन्पशूनुपाकरोति ६

07 द्वयानैकादशिनानुपाकृत्य पुरुषान् ...{Loading}...

द्वयानैकादशिनानुपाकृत्य पुरुषान् ७

08 ब्रह्मणे ब्राह्मणमालभत इत्येतद्यथासमाम्नातम् ...{Loading}...

ब्रह्मणे ब्राह्मणमालभत इत्येतद्यथासमाम्नातम् ८

09 तान्यूपान्तरालेषु धारयन्ति ...{Loading}...

तान्यूपान्तरालेषु धारयन्ति ९

10 उपाकृतान्दक्षिणतोऽवस्थाय ब्रह्मा सहस्रशीर्षा ...{Loading}...

उपाकृतान्दक्षिणतोऽवस्थाय ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन परा चानुशंसति १०

11 पर्यग्निकृतानुदीचो नीत्योत्सृज्याज्येन तद्देवता ...{Loading}...

पर्यग्निकृतानुदीचो नीत्योत्सृज्याज्येन तद्देवता आहुतीर्हुत्वा द्वयैरैकादशिनैः संस्थापयति ११

12 दक्षिणाकाले यदब्राह्मणानान् दिक्षु ...{Loading}...

दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्सभूमि ददाति यथाश्वमेधे १२

13 ब्राह्मणो यजमानः सर्ववेदसम् ...{Loading}...

ब्राह्मणो यजमानः सर्ववेदसम् १३

14 एतस्मिन्नेवाहन्यश्वमेधवदभिषेकः ...{Loading}...

एतस्मिन्नेवाहन्यश्वमेधवदभिषेकः १४

15 एकादशानूबन्ध्याः सौरीर्वैश्वदेवीः प्राजापत्या ...{Loading}...

एकादशानूबन्ध्याः सौरीर्वैश्वदेवीः प्राजापत्या वा १५

16 त्रैधातवीययोदवसाय पृथगरणीष्वग्नीन्समारोप्योत्तरनारायणेनादित्यमुपस्थायारण्यमवतिष्ठेत ...{Loading}...

त्रैधातवीययोदवसाय पृथगरणीष्वग्नीन्समारोप्योत्तरनारायणेनादित्यमुपस्थायारण्यमवतिष्ठेत १६

17 ग्रामं वा प्रविश्य ...{Loading}...

ग्रामं वा प्रविश्य त्रैधातवीयया यजेत १७

इति चतुर्विंशी कण्डिका


  1. Cf. ŚB XIII.6.1.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.6.5.m. ↩︎ ↩︎ ↩︎

  3. R̥V V.82.5. ↩︎ ↩︎

  4. Cf. ŚB III.6.2.9. ↩︎ ↩︎