२४

01 पञ्चाहः पुरुषमेधः …{Loading}…

पञ्चाहः पुरुषमेधः १

02 ब्राह्मणो राजन्यो वा …{Loading}…

ब्राह्मणो राजन्यो वा यजेत २

03 ओजो वीर्यमाप्नोति सर्वा …{Loading}…

ओजो वीर्यमाप्नोति । सर्वा व्यष्टीर्व्यश्नुते ३

04 एकादशसु यूपेष्वेकादशाग्नीषोमीयाः …{Loading}…

एकादशसु यूपेष्वेकादशाग्नीषोमीयाः ४

05 पञ्चशारदीयवदहानि अग्निष्टोमो वोपोत्तमः …{Loading}…

पञ्चशारदीयवदहानि । अग्निष्टोमो वोपोत्तमः ५

06 देव सवितः तत्सवितुः …{Loading}…

देव सवितः । तत्सवितुः । विश्वानि देव सवितरिति तिस्रः सावित्रीर्हुत्वा मध्यमेऽहन्पशूनुपाकरोति ६

07 द्वयानैकादशिनानुपाकृत्य पुरुषान् …{Loading}…

द्वयानैकादशिनानुपाकृत्य पुरुषान् ७

08 ब्रह्मणे ब्राह्मणमालभत इत्येतद्यथासमाम्नातम् …{Loading}…

ब्रह्मणे ब्राह्मणमालभत इत्येतद्यथासमाम्नातम् ८

09 तान्यूपान्तरालेषु धारयन्ति …{Loading}…

तान्यूपान्तरालेषु धारयन्ति ९

10 उपाकृतान्दक्षिणतोऽवस्थाय ब्रह्मा सहस्रशीर्षा …{Loading}…

उपाकृतान्दक्षिणतोऽवस्थाय ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन परा चानुशंसति १०

11 पर्यग्निकृतानुदीचो नीत्योत्सृज्याज्येन तद्देवता …{Loading}…

पर्यग्निकृतानुदीचो नीत्योत्सृज्याज्येन तद्देवता आहुतीर्हुत्वा द्वयैरैकादशिनैः संस्थापयति ११

12 दक्षिणाकाले यदब्राह्मणानान् दिक्षु …{Loading}…

दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्सभूमि ददाति यथाश्वमेधे १२

13 ब्राह्मणो यजमानः सर्ववेदसम् …{Loading}…

ब्राह्मणो यजमानः सर्ववेदसम् १३

14 एतस्मिन्नेवाहन्यश्वमेधवदभिषेकः …{Loading}…

एतस्मिन्नेवाहन्यश्वमेधवदभिषेकः १४

15 एकादशानूबन्ध्याः सौरीर्वैश्वदेवीः प्राजापत्या …{Loading}…

एकादशानूबन्ध्याः सौरीर्वैश्वदेवीः प्राजापत्या वा १५

16 त्रैधातवीययोदवसाय पृथगरणीष्वग्नीन्समारोप्योत्तरनारायणेनादित्यमुपस्थायारण्यमवतिष्ठेत …{Loading}…

त्रैधातवीययोदवसाय पृथगरणीष्वग्नीन्समारोप्योत्तरनारायणेनादित्यमुपस्थायारण्यमवतिष्ठेत १६

17 ग्रामं वा प्रविश्य …{Loading}…

ग्रामं वा प्रविश्य त्रैधातवीयया यजेत १७

इति चतुर्विंशी कण्डिका


  1. Cf. ŚB XIII.6.1.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.6.5.m. ↩︎ ↩︎ ↩︎

  3. R̥V V.82.5. ↩︎ ↩︎

  4. Cf. ŚB III.6.2.9. ↩︎ ↩︎