२३

01 अथैकेषाम् त्रैतानाम् प्रथमजङ् …{Loading}…

अथैकेषाम् । त्रैतानां प्रथमजं कालकाभ्रुमश्विभ्यां मध्यमे विशालयूप आलभते । तेषामेव मध्यमजमूर्जे दक्षिणे । उत्तमजं पृथिव्या उत्तरे १

02 तेषाम् पशुपुरोडाशानग्नयेंऽहोमुचेऽष्टाकपाल इति …{Loading}…

तेषां पशुपुरोडाशानग्नयेंऽहोमुचेऽष्टाकपाल इति दशहविषं मृगारेष्टिमनुनिर्वपति २

03 समानन् तु स्विष्टकृदिडम् …{Loading}…

समानं तु स्विष्टकृदिडम् ३

04 अग्नेर्मन्वे प्रथमस्य प्रचेतस …{Loading}…

अग्नेर्मन्वे प्रथमस्य प्रचेतस इति यथालिङ्गं याज्यानुवाक्याः ४

05 त्रैधातवीययो दवस्यति …{Loading}…

त्रैधातवीययो दवस्यति ५

06 तस्यां सहस्रन् ददाति …{Loading}…

तस्यां सहस्रं ददाति ६

07 उदवसाय विशालयूपमेके समामनन्ति …{Loading}…

उदवसाय विशालयूपमेके समामनन्ति ७

08 तदाहुर्द्वादश ब्रह्मौदनान्संस्थिते निर्वपेद्द्वादशभिर्वेष्टिभिर्यजेतेति …{Loading}…

तदाहुर्द्वादश ब्रह्मौदनान्संस्थिते निर्वपेद्द्वादशभिर्वेष्टिभिर्यजेतेति ८

09 तदु तथा न …{Loading}…

तदु तथा न कुर्यात् । द्वादशैव ब्रह्मौदनान्संस्थिते निर्वपेत् । तेष्वन्वहं द्वादशानि शतानि ददाति ९

10 पिशङ्गास्त्रयो वासन्ता इत्यृतुपशुभिः …{Loading}…

पिशङ्गास्त्रयो वासन्ता इत्यृतुपशुभिः संवत्सरं यजते १०

11 अथैकेषाम् आग्नेया वासन्ताः …{Loading}…

अथैकेषाम् । आग्नेया वासन्ताः । ऐन्द्रा ग्रैष्माः । मारुताः पार्जन्या वा वार्षिकाः । ऐन्द्रावारुणाः शारदाः । ऐन्द्राबार्हस्पत्या हैमन्तिकाः । ऐन्द्रावैष्णवाः शैशिराः ११

12 संवत्सराय निवक्षस इति …{Loading}…

संवत्सराय निवक्षस इति द्वयोर्द्वयोर्मासयोः पशुबन्धेन यजते १२

13 सन्तिष्ठतेऽश्वमेधः …{Loading}…

सन्तिष्ठतेऽश्वमेधः १३

इति त्रयोविंशी कण्डिका


  1. Unknown ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The animals are enumerated in TS V.6.23. For this Sūtra cf. TB III.9.9.3. ↩︎