२२

01 गोमृगकण्ठेन प्रथमामाहुतिञ् जुहोति ...{Loading}...

गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । अश्वशफेन द्वितीयाम् । अयस्मयेन कमण्डलुना तृतीयाम् १

02 पत्नीसंयाजान्तमहः सन्तिष्ठते ...{Loading}...

पत्नीसंयाजान्तमहः सन्तिष्ठते २

03 श्वो भूते प्रतायते ...{Loading}...

श्वो भूते प्रतायते सर्वस्तोमोऽतिरात्रो बृहत्सामा ३

04 पशुकाले गव्यानैकादशिनानालभन्ते प्राजापत्यान्वैश्वदेवान्वा ...{Loading}...

पशुकाले गव्यानैकादशिनानालभन्ते प्राजापत्यान्वैश्वदेवान्वा । प्राजापत्यृमृषभं तूपरं सर्वरूपं सर्वेभ्यः कामेभ्यो द्वादशमुपालम्भ्यम् ४

05 समानमावभृथात् ...{Loading}...

समानमावभृथात् ५

06 अवभृथेन प्रचर्यात्रेयं शिपिविष्टङ् ...{Loading}...

अवभृथेन प्रचर्यात्रेयं शिपिविष्टं खलतिं विक्लिधं शुक्लं पिङ्गाक्षं तिलकावलमवभृथमभ्यवनीय तस्य मूर्धञ्जुहोति मृत्यवे स्वाहा भ्रूणहत्यायै स्वाहा जुम्बकाय स्वाहेति तिस्रः ६

07 तस्मै शतमनोयुक्तञ् च ...{Loading}...

तस्मै शतमनोयुक्तं च ददाति ७

08 शते चानोयुक्ते चेत्येके ...{Loading}...

शते चानोयुक्ते चेत्येके ८

09 सह पुण्यकृतः पापकृतश्च ...{Loading}...

सह पुण्यकृतः पापकृतश्च हस्तसंरब्धा ग्राममभ्युदायन्ति । सर्वे ते पुण्यलोका भवन्तीति विज्ञायते ९

10 सौरीर्नव श्वेता वशा ...{Loading}...

सौरीर्नव श्वेता वशा अनूबन्ध्या भवन्ति १०

11 अथैकेषाम् रोहिणीरैन्द्रीः सौरीः ...{Loading}...

अथैकेषाम् । रोहिणीरैन्द्रीः सौरीः श्वेताः शितिपृष्ठा बार्हस्पत्याः ११

12 अत्र वा द्वन्द्विन ...{Loading}...

अत्र वा द्वन्द्विन आलभते १२

13 छगलः कल्माषः किकिदीविर्विदीगय ...{Loading}...

छगलः कल्माषः किकिदीविर्विदीगय इति ते त्रयस्त्वाष्ट्राः १३

14 पात्नीवत आग्नेय ऐन्द्राग्न ...{Loading}...

पात्नीवत आग्नेय ऐन्द्राग्न आश्विनस्ते विशालयूप आलभ्यन्ते १४

इति द्वाविंशी कण्डिका


  1. Cf. TB III.9.11.3-4. See also Xx.19.10-11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.6.22; TB III.9.9.2. ↩︎ ↩︎

  3. Cf. TS V.6.22; TB III.9.16.3-4. ↩︎