२१

01 पशुकाल उत्तरत उपरिष्टादग्नेर्वैतसे …{Loading}…

पशुकाल उत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वं प्राञ्चं यथाङ्गं चिनोति १

02 एवम् पुरस्तात्प्रत्यञ्चन् तूपरम् …{Loading}…

एवं पुरस्तात्प्रत्यञ्चं तूपरम् । पश्चात्प्राचीनं गोमृगम् २

03 दक्षिणतः प्लक्षशाखास्वितरान्पशूनासादयति …{Loading}…

दक्षिणतः प्लक्षशाखास्वितरान्पशूनासादयति ३

04 वपावच्चर्या …{Loading}…

वपावच्चर्या ४

05 हविष इत्यन्तौ नमति …{Loading}…

हविष इत्यन्तौ नमति ५

06 आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते …{Loading}…

आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठमिति वैतसेन कटेनाश्वतूपरगोमृगान्सर्वहुतान्हुत्वेलुवर्दाय स्वाहा बलिवर्दाय स्वाहेत्यश्वमभिजुहोति ६

07 अत्र कटमनुप्रहरति …{Loading}…

अत्र कटमनुप्रहरति ७

08 येऽश्वस्य हुतस्य गन्धमाजिघ्रन्ति …{Loading}…

येऽश्वस्य हुतस्य गन्धमाजिघ्रन्ति सर्वे ते पुण्यलोका भवन्तीति विज्ञायते ८

09 हविषा प्रचर्याज्यमवदानङ् कृत्वा …{Loading}…

हविषा प्रचर्याज्यमवदानं कृत्वा स्तेगान्दंष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरित्येतैश्चतुर्दशभिरनुवाकैः प्रतिमन्त्रं शरीरहोमाञ्जुहोति ९

10 दिवाकीर्त्यम् पञ्चदशम् अरण्येऽनुवाक्यं …{Loading}…

दिवाकीर्त्यं पञ्चदशम् । अरण्येऽनुवाक्यं षोडशम् । द्यौस्ते पृष्ठमित्येतं सप्तदशमाज्येनैव १०

11 यदक्रन्दः प्रथमञ् जायमान …{Loading}…

यदक्रन्दः प्रथमं जायमान इत्येतैस्त्रिभिरनुवाकैः षट्त्रिंशतमश्वस्तोमीयाञ्जुहोति ११

12 क्रमैरत्यक्रमीदित्येतां षट्त्रिंशीम् …{Loading}…

क्रमैरत्यक्रमीदित्येतां षट्त्रिंशीम् १२

13 अष्टादश जुहोतीत्येके …{Loading}…

अष्टादश जुहोतीत्येके १३

14 इमा नु कम् …{Loading}…

इमा नु कं भुवना सीषधेमेति द्विपदाः १४

15 अन्ततोऽश्वस्य लोहितेन शृतेन …{Loading}…

अन्ततोऽश्वस्य लोहितेन शृतेन स्तिष्टकृतं यजति १५

इत्येकविंशी कण्डिका


  1. Cf. ŚB XIII.2.2.19: cp.xx.18.15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB III.8.20.4; cp.III.8.19.2. ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.8.20.5. ↩︎ ↩︎