२०

01 ऋषभचर्माभिषिच्यमानस्योपरि धारयन्ति ...{Loading}...

ऋषभचर्माभिषिच्यमानस्योपरि धारयन्ति १

02 सहस्रशीर्षा पुरुष इति ...{Loading}...

सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन सौवर्णेन शतमानेन शतक्षरेण शतकृष्णलेन यजमानस्य शीर्षन्नधिनिदधाति २

03 प्रजापतेस्त्वा प्रसवे पृथिव्या ...{Loading}...

प्रजापतेस्त्वा प्रसवे पृथिव्या नाभावन्तरिक्षस्य बाहुभ्यां दिवो हस्ताभ्यां प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीति महिम्नोः संस्स्रावेणाभिषिञ्चति ३

04 वायव्यैरभिषिञ्चतीत्येके ...{Loading}...

वायव्यैरभिषिञ्चतीत्येके ४

05 मधुश्च माधवश्चेति मासनामभिरभिषिच्यमानमभिजुहोति ...{Loading}...

मधुश्च माधवश्चेति मासनामभिरभिषिच्यमानमभिजुहोति ५

06 वसन्ताय स्वाहा ग्रीष्माय ...{Loading}...

वसन्ताय स्वाहा ग्रीष्माय स्वाहेत्यृतुभ्यः षट् ६

07 वि न इन्द्र ...{Loading}...

वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माँ अभिदासत्यधरं गमया तमः । वि रक्षो वि मृधो नुद वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासत इति वैमृधीभ्यां यजमानो मुखं विमृष्टे ७

08 ऊर्ध्वा अस्य समिधो ...{Loading}...

ऊर्ध्वा अस्य समिधो भवन्तीति प्राजापत्याभिराप्रीभिरभिषिच्यमानस्य हस्तं गृह्णाति ८

09 प्रजापतिश्चरति गर्भे अन्तः ...{Loading}...

प्रजापतिश्चरति गर्भे अन्तः । प्रजापतिं प्रथमं यज्ञियानां देवानामग्रे यजतं यजध्वम् । स नो ददातु द्रविणं सुवीर्यं रायस्पोषं वि ष्यतु नाभिमस्मे । तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्य इदं नो देव प्रति हर्य हव्यमिति षट् प्राजापत्या उपरिष्टादभिषेकस्य जुहोति ९

10 प्राची दिशामिति षट् ...{Loading}...

प्राची दिशामिति षट् चापानभृतः १०

11 अत्र यजमानो जागतान्विष्णुक्रमान्क्रामति ...{Loading}...

अत्र यजमानो जागतान्विष्णुक्रमान्क्रामति ११

इति विंशी कण्डिका


  1. Cp. XVIII.15.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ III.12. ↩︎ ↩︎ ↩︎ ↩︎