१९

01 दक्षिणतः प्लक्षशाखास्वितरेषाम् पशूनाम् ...{Loading}...

दक्षिणतः प्लक्षशाखास्वितरेषां पशूनाम् १

02 पूर्वौ परिवप्यमहिमानौ हुत्वाश्वतूपरगोमृगाणां ...{Loading}...

पूर्वौ परिवप्यमहिमानौ हुत्वाश्वतूपरगोमृगाणां वपाः समवदाय सम्प्रेष्यति २

03 प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य ...{Loading}...

प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसामनुब्रूहि । क्प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसां प्रेष्येति सम्प्रैषौ । चन्द्रवपयोर्मेदसामनुब्रूहि चन्द्रवपयोर्मेदसां प्रेष्येति वा ३

04 समवदायेतरेषां वपाः सम्प्रेष्यति ...{Loading}...

समवदायेतरेषां वपाः सम्प्रेष्यति ४

05 विश्वेभ्यो देवेभ्य उस्राणाञ् ...{Loading}...

विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसामनुब्रूहि । विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसां प्रेष्येति सम्प्रैषौ ५

06 उत्तरौ परिवप्यमहिमानौ हुत्वा ...{Loading}...

उत्तरौ परिवप्यमहिमानौ हुत्वा चात्वाले मार्जयित्वाभितोऽग्निष्ठं ब्रह्मोद्याय पर्युपविशेते । दक्षिणो ब्रह्मा । उत्तरो होता ६

07 किं स्विदासीत्पूर्वचित्तिरित्येतस्यानुवाकस्य पृष्टानि ...{Loading}...

किं स्विदासीत्पूर्वचित्तिरित्येतस्यानुवाकस्य पृष्टानि होतुः प्रतिज्ञातानि ब्रह्मणः ७

08 ब्रह्मण उदञ्चं विजयं ...{Loading}...

ब्रह्मण उदञ्चं विजयं सञ्ज्ञापयन्ति ८

09 प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि ...{Loading}...

प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यगसम्भिन्दन्तः सूकरविशसं विशसतेति सम्प्रैषवत्कुर्वन्ति ९

10 अश्वस्य लोहितं स्विष्टकृदर्थन् ...{Loading}...

अश्वस्य लोहितं स्विष्टकृदर्थं निदधाति १०

11 शफङ् गोमृगकण्टञ् च ...{Loading}...

शफं गोमृगकण्टं च माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति ११

12 हिरण्यगर्भः समवर्तताग्र इति ...{Loading}...

हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः पुरस्तादभिषेकस्य जुहोति । अयं पुरो भुव इति षट् च प्राणभृतः १२

13 व्याघ्रचर्मणि हिंहचर्मणि वाभिषिच्यते ...{Loading}...

व्याघ्रचर्मणि हिंहचर्मणि वाभिषिच्यते १३

इत्येकोनविंशी कण्डिका


  1. For these see VII.20.9; cf. also Xx.19.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp.xx.13.2; XX.19.6. ↩︎ ↩︎ ↩︎

  3. TS IV.3.2. ↩︎