१८

01 गणानान् त्वा गणपतिं ...{Loading}...

गणानां त्वा गणपतिं हवामह इत्यभिमन्त्र्याहं स्यां त्वं स्याः सुरायाः कुलजः स्यात्तत्रेमांश्चतुरः पदो व्यतिषज्य शयावहा इति पदो व्यतिषजते १

02 तौ सह चतुरः ...{Loading}...

तौ सह चतुरः पदः सं प्र सारयावहा इति पदः सम्प्रसारयते २

03 सुभगे काम्पीलवासिनीति क्षौमेण ...{Loading}...

सुभगे काम्पीलवासिनीति क्षौमेण वाससाध्वर्युर्महिषीमश्वं च प्रच्छाद्य वृषा वामित्यभिमन्त्रयते ३

04 उत्सक्थ्योर्गृदन् धेहीति प्रजननेन ...{Loading}...

उत्सक्थ्योर्गृदं धेहीति प्रजननेन प्रजननं सन्धायाम्बे अम्बाल्यम्बिक इति महिष्यश्वं गर्हते ४

05 ऊर्ध्वामेनामुच्छ्रयतादिति पत्नयोऽभिमेधन्ते ...{Loading}...

ऊर्ध्वामेनामुच्छ्रयतादिति पत्नयोऽभिमेधन्ते ५

06 त्रिर्महिषी गर्हते त्रिः ...{Loading}...

त्रिर्महिषी गर्हते । त्रिः पत्नयोऽभिमेधन्त उत्तरयोत्तरयर्चा ६

07 दधिक्राव्णो अकारिषमिति सर्वाः ...{Loading}...

दधिक्राव्णो अकारिषमिति सर्वाः सुरभिमतीमृचमन्ततो जपित्वापोहिष्ठीयाभिर्मार्जयित्वा गायत्री त्रिष्टुबिति द्वाभ्यां सौवर्णीभिः सूचीभिर्महिष्यश्वस्यासिपथान्कल्ल्पयति प्राक्क्रडात् । एवमुत्तराभ्यां राजतीभिर्वावाता प्रत्यक्क्रोडात्प्राङ्नाभेः । एवमुत्तराभ्यां लौहीभिः सीसाभिर्वा परिवृक्ती शेषम् ७

08 तूष्णीन् तूपरगोमृगयोरसिपथान्कल्पयन्ति ...{Loading}...

तूष्णीं तूपरगोमृगयोरसिपथान्कल्पयन्ति ८

09 कस्त्वा छ्यति कस्त्वा ...{Loading}...

कस्त्वा छ्यति कस्त्वा वि शास्तीत्यश्वस्य त्वचमाच्छ्यति ९

10 चन्द्रन् नाम मेदः ...{Loading}...

चन्द्रं नाम मेदः । तदुद्धरति १०

11 नाश्वस्य वपा विद्यते ...{Loading}...

नाश्वस्य वपा विद्यते ११

12 उद्धरतीतरेषाम् ...{Loading}...

उद्धरतीतरेषाम् १२

13 कर्णञ् छित्त्वा त्र्यङ्गेषूपसन्नह्यति ...{Loading}...

कर्णं छित्त्वा त्र्यङ्गेषूपसन्नह्यति १३

14 नाश्वस्य गुदो विद्यते ...{Loading}...

नाश्वस्य गुदो विद्यते १४

15 शृतासु वपासुत्तरत उपरिष्टादग्नेर्वेतसशाखायामश्वतूपरगोमृगाणां ...{Loading}...

शृतासु वपासुत्तरत उपरिष्टादग्नेर्वेतसशाखायामश्वतूपरगोमृगाणां वपाः सादयति १५

इत्यष्टादशी कण्डिका


  1. TS II.3.14.0. See also MS III.12.20; VS XXIII.19, śB XIII.2.8.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS VII.4.19.c,d. ↩︎ ↩︎ ↩︎

  3. TS VII.4.19.f. ↩︎ ↩︎

  4. TS V.2.11.c-d. ↩︎

  5. TS V.2.11.e-f. For this Sūtra cf. TB III.9.6. ↩︎