१७

01 आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते ...{Loading}...

आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठमित्यश्वमभिमन्त्र्य यथोपाकृतं नियुज्य प्रोक्ष्योपपाययति १

02 यद्युपपाय्यमानो न पिबेदग्निः ...{Loading}...

यद्युपपाय्यमानो न पिबेदग्निः पशुरासीदित्युपपाययेत् २

03 समिद्धो अञ्जन्कृदरम् मतीनामित्यश्वस्याप्रियो ...{Loading}...

समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति ३

04 मेषस्त्वा पचतैरवत्विति पर्यग्नौ ...{Loading}...

मेषस्त्वा पचतैरवत्विति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति ४

05 पर्यग्निकृतानारण्यानुत्सृजन्ति ...{Loading}...

पर्यग्निकृतानारण्यानुत्सृजन्ति ५

06 वडबे पुरुषी च ...{Loading}...

वडबे पुरुषी च ६

07 अजः पुरो नीयतेऽश्वस्य ...{Loading}...

अजः पुरो नीयतेऽश्वस्य ७

08 वेतसशाखायान् तार्प्यङ् कृत्त्यधीवासं ...{Loading}...

वेतसशाखायां तार्प्यं कृत्त्यधीवासं हिरण्यकशिपु चास्तीर्य सौवर्णं रुक्ममुपरिष्टात्कृत्वा तस्मिन्नश्वतूपरगोमृगान्निघ्नन्ति । प्लक्षशाखास्वितरान्पशून् ८

09 श्यामूलेन क्षौमेण वाश्वं ...{Loading}...

श्यामूलेन क्षौमेण वाश्वं सञ्ज्ञपयन्ति । स्पन्द्याभिरितरान्पशून् ९

10 प्राणाय स्वाहा व्यानाय ...{Loading}...

प्राणाय स्वाहा व्यानाय स्वाहेति सञ्ज्ञप्यमाने पशावाहुती जुहोति । सञ्ज्ञप्ते वा १०

11 यामेन साम्ना प्रस्तोतानूपतिष्ठते ...{Loading}...

यामेन साम्ना प्रस्तोतानूपतिष्ठते ११

12 अम्बे अम्बाल्यम्बिक इति ...{Loading}...

अम्बे अम्बाल्यम्बिक इति प्रतिप्रस्थाता पत्नीरुदानयति १२

13 ता दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य ...{Loading}...

ता दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरभिधून्वत्यस्त्रिः प्रदक्षिणमश्वं परियन्त्यवन्ती स्थेति १३

14 सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना ...{Loading}...

सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वत्यस्त्रिः प्रतिपरियन्ति १४

15 प्रदक्षिणमन्ततो यथा पुरस्तात् ...{Loading}...

प्रदक्षिणमन्ततो यथा पुरस्तात् १५

16 नवकृत्वः सम्पादयन्ति ...{Loading}...

नवकृत्वः सम्पादयन्ति १६

17 अम्बे अम्बाल्यम्बिक इति ...{Loading}...

अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविश्य १७

इति सप्तदशी कण्डिका


  1. Cf. TB III.9.4.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS VII.5.19.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS V.7.24. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. TS V.7.25. ↩︎

  5. Thus to the middle post. ↩︎

  6. Cf. TB III.9.4.10. ↩︎

  7. Cf. TB III.9.4.11-12. ↩︎