१६

01 युञ्जन्ति ब्रध्नमिति दक्षिणस्यां ...{Loading}...

युञ्जन्ति ब्रध्नमिति दक्षिणस्यां युगधुर्येतमश्वं युनक्ति १

02 युञ्जन्त्यस्य काम्येति प्रष्टी ...{Loading}...

युञ्जन्त्यस्य काम्येति प्रष्टी २

03 केतुङ् कृण्वन्नकेतव इति ...{Loading}...

केतुं कृण्वन्नकेतव इति रथे ध्वजमवगूहति ३

04 जीमूतस्येवेति कवचमध्यूहते ...{Loading}...

जीमूतस्येवेति कवचमध्यूहते ४

05 धन्वना गा इति ...{Loading}...

धन्वना गा इति धनुरादत्ते ५

06 वक्ष्यन्तीवेति ज्यामभिमृशति ...{Loading}...

वक्ष्यन्तीवेति ज्यामभिमृशति ६

07 ते आचरन्तीति धनीरार्त्नी ...{Loading}...

ते आचरन्तीति धनीरार्त्नी सम्मृशति ७

08 बह्वीनाम् पिता बहुरस्य ...{Loading}...

बह्वीनां पिता बहुरस्य पुत्र इति पृष्ठ इषुधिं निनह्यति ८

09 रथे तिष्ठन्नयति वाजिन ...{Loading}...

रथे तिष्ठन्नयति वाजिन इति सारथिमभिमन्त्रयते ९

10 तीव्रान्घोषान्कृण्वते वृषपाणय इत्यश्वान् ...{Loading}...

तीव्रान्घोषान्कृण्वते वृषपाणय इत्यश्वान् १०

11 स्वादुषंसदः पितरो वयोधा ...{Loading}...

स्वादुषंसदः पितरो वयोधा इति तिसृभिः पितॄनुपतिष्ठते ११

12 ऋजीते परि वृङ्ग्धि ...{Loading}...

ऋजीते परि वृङ्ग्धि न इत्यात्मानं प्रत्यभिमृश्या जङ्घन्तीत्यश्वाजनिमादायाहिरिव भोगैरिति हस्तघ्नमभिमन्त्रयते १२

13 वनस्पते वीड्वङ्गो हि ...{Loading}...

वनस्पते वीड्वङ्गो हि भूया इति पञ्चमी रथम् १३

14 आमूरज प्रत्यावर्तयेमाः केतुमदिति ...{Loading}...

आमूरज प्रत्यावर्तयेमाः केतुमदिति दुन्दुभीन्संह्रादयन्ति १४

15 आक्रान्वाजी क्रमैरत्यक्रमीद्वाजीत्युदगुदकान्तमभिप्रयाय ये ...{Loading}...

आक्रान्वाजी क्रमैरत्यक्रमीद्वाजीत्युदगुदकान्तमभिप्रयाय ये ते पन्थानः सवितरित्यध्वर्युर्यजमानं वाचयति १५

16 स्वयं वाजिन्नपोऽवजिघ्रेत्यपोऽश्वमवघ्राप्य यद्वातो ...{Loading}...

स्वयं वाजिन्नपोऽवजिघ्रेत्यपोऽश्वमवघ्राप्य यद्वातो अपो अगमदिति प्रदक्षिणमावर्तयति १६

17 यतः प्रायति तदवतिष्ठते ...{Loading}...

यतः प्रायति तदवतिष्ठते १७

18 वि ते मुञ्चामीत्येतमश्वं ...{Loading}...

वि ते मुञ्चामीत्येतमश्वं विमुच्य रथवाहनं हविरस्य नामेति रथवाहने रथमत्याधाय द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं सम्मार्ष्टि १८

29 इति पत्नयोऽश्वायान्नपरिशेषानुपवपन्ति ...{Loading}...

लाजी३ञ्छाची३न्यशो ममां३ इति पत्नयोऽश्वायान्नपरिशेषानुपवपन्ति १९

20 ययोपन्युप्तमत्ति तस्यै प्रजा ...{Loading}...

ययोपन्युप्तमत्ति तस्यै प्रजा राष्ट्रं भवति २०

इति षोडशी कण्डिका


  1. TS VII.4.20.f; cp. TB III.9.4.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.6.5.n. ↩︎ ↩︎ ↩︎ ↩︎

  3. I follow Caland and read here hastatram instead of hastaghnam. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS IV.6.6.0. ↩︎ ↩︎