१५

01 श्वेता आदित्याः ...{Loading}...

श्वेता आदित्याः १

02 कृष्णग्रीवा इत्युक्तम् ...{Loading}...

कृष्णग्रीवा इत्युक्तम् २

03 एता ऐन्द्राग्नाः बहुरूपा ...{Loading}...

एता ऐन्द्राग्नाः । बहुरूपा वैश्वदेवाः । प्राशृङ्गाः शुनासीरीयाः । श्वेता वायव्याः । श्वेताः सौर्या इति चातुर्मास्याः पशवः ३

04 द्वयानैकादशिनानालभन्ते प्राकृतानाश्वमए\!धिकांश्च ...{Loading}...

द्वयानैकादशिनानालभन्ते । प्राकृतानाश्वमए!धिकांश्च ४

05 अग्नयेऽनीकवत इत्याश्वमेधिकान् सोमाय ...{Loading}...

अग्नयेऽनीकवत इत्याश्वमेधिकान् । सोमाय स्वराज्ञ इति द्वंद्विनः ५

06 उपाकृताय स्वाहेत्युपाकृते जुहोति ...{Loading}...

उपाकृताय स्वाहेत्युपाकृते जुहोति । आलब्धाय स्वाहेति नियुक्ते । हुताय स्वाहेति हुते ६

07 पत्नयोऽश्वमलङ् कुर्वन्ति महिषी ...{Loading}...

पत्नयोऽश्वमलं कुर्वन्ति । महिषी वावाता परिवृक्तीति ७

08 शतंशतमेकैकस्याः सचिवाः राजपुत्रीर्दाराश्चोग्राणामराज्ञां ...{Loading}...

शतंशतमेकैकस्याः सचिवाः । राजपुत्रीर्दाराश्चोग्राणामराज्ञां सूतग्रामण्यामिति ८

09 सहस्रंसहस्रम् मणयः सुवर्णरजतसामुद्राः ...{Loading}...

सहस्रंसहस्रं मणयः सुवर्णरजतसामुद्राः ९

10 वालेसु मणीनावयन्ति भूरिति ...{Loading}...

वालेसु मणीनावयन्ति । भूरिति सौवर्णान्महिषी प्राग्वहात् । भुव इति राजतान्वावाता प्रत्यग्वहात्प्राक् श्रोणेः । सुवरिति सामुद्रान्परिवृक्ती प्रत्यक् श्रोणेः १०

11 वालेसु कुमार्यः शङ्खमणीनुपग्रथ्नन्त्यप्रस्रंसाय ...{Loading}...

वालेसु कुमार्यः शङ्खमणीनुपग्रथ्नन्त्यप्रस्रंसाय । न वा ११

12 अथास्य स्वदेशानाज्येनाभ्यञ्जन्ति वसवस्त्वाञ्जन्तु ...{Loading}...

अथास्य स्वदेशानाज्येनाभ्यञ्जन्ति । वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति गौल्गुलवेन महिषी । रुद्रा इति कासाम्बवेन वावाता । आदित्या इति मौस्तकृतेन परिवृक्ती १२

13 गौल्गुलवेन सुरभिरश्वो मेधमुपाकृतः ...{Loading}...

गौल्गुलवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । कासाम्बवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । मौस्तकृतेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भवेत्येतैश्च प्रतिमन्त्रम् १३

इति पञ्चदशमी कण्डिका


  1. VS XXIV.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS V.6.21; cf. also TB III.9.9.3. ↩︎ ↩︎ ↩︎ ↩︎

  3. i.e. ghee mixed wth the decoction of Devadāru. ↩︎

  4. i.e. ghee mixed with the decoction of the tree called Cyperus Rotunda. ↩︎