१४

01 रोहितो धूम्ररोहित इति ...{Loading}...

रोहितो धूम्ररोहित इति नवनव प्रतिविभज्यैन्द्राग्नदशमानेके समामनन्ति १

02 एवमारण्यान् ...{Loading}...

एवमारण्यान् २

03 तान्यूपान्तरालेषु धारयन्ति ...{Loading}...

तान्यूपान्तरालेषु धारयन्ति ३

04 इन्द्राय राज्ञे सूकर ...{Loading}...

इन्द्राय राज्ञे सूकर इत्येकादश दशत आलभ्यन्ते ४

05 वसन्ताय कपिञ्जलानालभते ग्रीष्माय ...{Loading}...

वसन्ताय कपिञ्जलानालभते । ग्रीष्माय कलविङ्कान् । वर्षाभ्यस्तित्तिरीन् । शरदे वर्तिकाः । हेमन्ताय ककरान् । शिशिराय विकिरान् ५

06 कृष्णा भौमाः धूम्रा ...{Loading}...

कृष्णा भौमाः । धूम्रा आन्तरिक्षाः । बृहन्तो दैवाः । शबला वैद्युताः । सिध्मास्तारका इति पञ्चदशिनः ६

07 कृष्णग्रीवा आग्नेयाः बभ्रवः ...{Loading}...

कृष्णग्रीवा आग्नेयाः । बभ्रवः सौम्याः । उपध्वस्ताः सावित्राः । सारस्वत्यो वत्सतर्यः । पौष्णाः श्यामाः पृश्नयो मारुताः । बहुरूपा वैश्वदेवाः । वशा द्यावापृथिव्याः ७

08 कृष्णग्रीवा इत्युक्तम् ...{Loading}...

कृष्णग्रीवा इत्युक्तम् ८

09 एता ऐन्द्राग्नाः पृश्नयो ...{Loading}...

एता ऐन्द्राग्नाः । पृश्नयो मारुताः । कृष्णा वारुणाः । कायास्तूपराः ९

10 अग्नयेऽनीकवते प्रथमजानालभते मरुद्भ्यः ...{Loading}...

अग्नयेऽनीकवते प्रथमजानालभते । मरुद्भ्यः सान्तपनेभ्यः सवात्यान् । मरुद्भ्यो गृहमेधिभ्यो बाष्कान् । मरुद्भ्यः क्रीडिभ्यः संसृष्टान् । मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् १०

11 कृष्णग्रीवा इत्युक्तम् ...{Loading}...

कृष्णग्रीवा इत्युक्तम् ११

12 एता ऐन्द्राग्नाः प्राशृङ्गा ...{Loading}...

एता ऐन्द्राग्नाः । प्राशृङ्गा ऐन्द्राः । बहुरूपा वैश्वकर्मणाः १२

13 पितृभ्यः सोमवद्भ्यो बभ्रून्धूम्रानूकाशान् ...{Loading}...

पितृभ्यः सोमवद्भ्यो बभ्रून्धूम्रानूकाशान् । पितृभ्यो बर्हिषद्भ्यो धूम्रान्बभ्र्वनूकाशान् पितृभ्योऽग्निष्वात्तेभ्यो धूम्रान्रोहितांस्तैयम्बकान् १३

14 कृष्णाः पृषन्त इत्येके ...{Loading}...

कृष्णाः पृषन्त इत्येके १४

इति चतुर्दशी कण्डिका


  1. In TS V.6.11-20 ten groups each of eighteen animals are men tioned. Out of these 180 animals nine animals are to be bound to each of the twenty sacrificial posts. Cf. TB III.9.1.1-2. See also TB III.8.19.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎