१३

01 प्रतायत एकविंश उक्थ्यो …{Loading}…

प्रतायत एकविंश उक्थ्यो महानाम्नीसामा १

02 अन्तरेणाग्रयणोक्थ्यौ प्राकृतं सोममभिषुत्य …{Loading}…

अन्तरेणाग्रयणोक्थ्यौ प्राकृतं सोममभिषुत्य यः प्राणतो य आत्मदा इति महिमानौ गृह्णाति । राजतेन पूर्वं सौवर्णेनोत्तरम् २

03 सूर्यस्ते हमिमेति पूर्वं …{Loading}…

सूर्यस्ते हमिमेति पूर्वं सादयति । चन्द्रमास्ते महिमेत्युत्तरम् ३

04 आयुर्यज्ञस्य पवते मधु …{Loading}…

आयुर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभावसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इत्यश्वस्य ग्रीवासु सौवर्णनिष्कं प्रतिमुच्याग्निस्ते वाजिन्युङ्ङनु त्वारभ इति वालधावश्वमन्वारभ्य बहिष्पवमानं सर्पन्त्यग्निर्मूर्धेति ४

05 उद्गातारमपरुध्याश्वमुद्गीथाय वृणीते …{Loading}…

उद्गातारमपरुध्याश्वमुद्गीथाय वृणीते ५

06 तस्मै वडबा उपरुन्धन्ति …{Loading}…

तस्मै वडबा उपरुन्धन्ति ६

07 ता यदभिहिङ्करोति स …{Loading}…

ता यदभिहिङ्करोति स उद्गीथः । यत्प्रत्यभिहिङ्कुर्वन्ति स उपगीथः ७

08 उदगासीदश्वो मेध्यो यज्ञिय …{Loading}…

उदगासीदश्वो मेध्यो यज्ञिय इति शतेन शतपलेन च निष्केणोद्गातारमुपशिक्ष्येमां देवतामुद्गायन्तीमनूद्गायेति सम्प्रेष्यति ८

09 तेन हिरण्येन स्तोत्रमुपाकरोति …{Loading}…

तेन हिरण्येन स्तोत्रमुपाकरोति ९

10 बर्हिःस्थाने भवति …{Loading}…

बर्हिःस्थाने भवति १०

11 नमो राज्ञे नमो …{Loading}…

नमो राज्ञे नमो वरुणायेति वेतसशाखयाश्वतूपरगोमृगानग्निष्ठ उपाकरोति येषां चानादिष्टो देशः ११

12 प्लक्षशाखाभिरितरान्पशूनश्वे पर्यङ्ग्यान् आग्नेयङ् …{Loading}…

प्लक्षशाखाभिरितरान्पशूनश्वे पर्यङ्ग्यान् । आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे । पौष्णमन्वञ्चम् । ऐन्द्रापौष्णमुपरिष्टाद्ग्रीवासु । आग्नेयौ कृष्णग्रीवौ बाहुवोः । त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः । शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । सौर्ययामौ श्वेतं कृष्णं च पार्श्वयोः । धात्रे पृषोदरमधस्तात् । सौर्यं बलक्षं पुच्छे १२

13 अन्यत्राग्निष्ठादष्टादशिनः …{Loading}…

अन्यत्राग्निष्ठादष्टादशिनः १३

इति त्रयोदशी कण्डिका


  1. Cf. TB U1.9.9.1; ŚB XIII.3.2.1-2; TMB XXI.4.1;7:8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TB III.8.22.2. ↩︎ ↩︎

  3. TS VII.5.19.b. ↩︎ ↩︎

  4. TS l .5.5.c. ↩︎