१२

01 नमो राज्ञे नमो ...{Loading}...

नमो राज्ञे नमो वरुणायेति यव्यानि १

02 मयोभूर्वातो अभि वातूसा ...{Loading}...

मयोभूर्वातो अभि वातूसा इति गव्यानि २

03 प्राणाय स्वाहा व्यानाय ...{Loading}...

प्राणाय स्वाहा व्यानाय स्वाहेति सन्ततिहोमान् ३

04 सिताय स्वाहासिताय स्वाहेति ...{Loading}...

सिताय स्वाहासिताय स्वाहेति प्रमुक्तीः ४

05 पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं ...{Loading}...

पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं हुत्वा दत्वते स्वाहादन्तकाय स्वाहेति शरीरहोमान् ५

06 यः प्राणतो य ...{Loading}...

यः प्राणतो य आत्मदा इति महिमानौ ६

07 आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी ...{Loading}...

आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामिति समस्तानि ब्रह्मवर्चसानि ७

08 जज्ञि बीजमित्येतं हुत्वाग्नये ...{Loading}...

जज्ञि बीजमित्येतं हुत्वाग्नये समनमत्पृथिव्यै समनमदिति सन्नतिहोमान् ८

09 भूताय स्वाहा भविष्यते ...{Loading}...

भूताय स्वाहा भविष्यते स्वाहेति भूताभव्यौ होमौ ९

10 यदक्रन्दः प्रथमञ् जायमान ...{Loading}...

यदक्रन्दः प्रथमं जायमान इत्यश्वस्तोमीयं हुत्वैकस्मै स्वाहेत्येताननुवाकान्पुनःपुनरभ्यासं रात्रिशेषं हुत्वोषसे स्वाहेत्युषसि । व्युच्छन्त्यै स्वाहेति व्युच्छन्त्याम् । व्युष्ट्यै स्वाहेति व्युष्टायाम् । उदेष्यते स्वाहेत्युपोदयम् । उद्यते स्वाहेत्युद्यति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहेत्युदिते हुत्वा प्रज्ञातानन्नपरिशेषान्निदधाति १०

इति द्वादशी कण्डिका


  1. TS VII.4.16. ↩︎

  2. TS VII.4.17. ↩︎

  3. TS VII.4.21. ↩︎

  4. TS VII.4.22. ↩︎

  5. TS VII.5.11. ↩︎

  6. TS VII.5.12. ↩︎

  7. TS VII.5.16-17. ↩︎

  8. TS VII.5.18. ↩︎

  9. TS VII.5.20. ↩︎

  10. TS VII.5.23. ↩︎

  11. TB III.8.18.5. ↩︎

  12. TS IV.6.7-9. ↩︎

  13. TS VII.2.20. ↩︎

  14. Cp. TS III.8.16.4 and III.8.8.6. ↩︎

  15. For further use of the food cf. XX.16.19. ↩︎