१०

01 प्राचीन् दिशमध्वर्यवे दक्षिणाम् ...{Loading}...

प्राचीं दिशमध्वर्यवे । दक्षिणां ब्रह्मणे । प्रतीचीं होत्रे । उदीचीमुद्गात्रे । यदन्यद्भूमेः पुरुषेभ्यश्च । अपि वा प्राचीं होत्रे । प्रतीचीमध्वर्यवे १

02 महिषीम् ब्रह्मणे ददाति ...{Loading}...

महिषीं ब्रह्मणे ददाति । वावातां होत्रे । परिवृक्तीमुद्गात्रे । पालाकलीमध्वर्यव इति विज्ञायते २

03 पत्नीसंयाजान्तमहः सन्तिष्ठते ...{Loading}...

पत्नीसंयाजान्तमहः सन्तिष्ठते ३

04 संस्थितेऽहन्यभित आहवनीयं षट्त्रिंशतमाश्वत्थानुपतल्पान्मिन्वन्ति ...{Loading}...

संस्थितेऽहन्यभित आहवनीयं षट्त्रिंशतमाश्वत्थानुपतल्पान्मिन्वन्ति ४

05 अस्तमित आदित्ये षट्त्रिंशतमध्वर्यव ...{Loading}...

अस्तमित आदित्ये षट्त्रिंशतमध्वर्यव उपतल्पानधिरुह्य खादिरैः स्रुवैः सर्वां रात्रिमन्नहोमाञ्जुह्वति । आज्यं मधु तण्डुलान्पृथुकांल्लाजान्करम्भान्धानाः सक्तून्मसूस्यानि प्रियङ्गुतण्डुलानिति ५

06 चतुष्टयमेके समामनन्ति आज्येन ...{Loading}...

चतुष्टयमेके समामनन्ति । आज्येन जुहोति लाजैर्जुहोति धानाभिर्जुहोति सक्तुभिर्जुहोति ६

07 एकस्मै स्वाहेत्येतेषामनुवाकानामयुज आज्येन ...{Loading}...

एकस्मै स्वाहेत्येतेषामनुवाकानामयुज आज्येन युजोऽन्नेन । आज्येनान्ततः ७

08 अत्र प्रयुक्तानाम् प्रयोक्ष्यमाणानाञ् ...{Loading}...

अत्र प्रयुक्तानां प्रयोक्ष्यमाणानां च मन्त्राणां प्रयोगमेके समामनन्ति ८

इति दशमी कण्डिका


  1. Cp. SB XIII.5.4.24. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB III.8.14.1. ↩︎