०९

01 वेदिकाले द्विस्तावा वेदिः ...{Loading}...

वेदिकाले द्विस्तावा वेदिः । त्रिस्तावोऽग्निरेकविंशो वा १

02 वैश्वानरेण प्रचर्याग्नये गायत्रायेति ...{Loading}...

वैश्वानरेण प्रचर्याग्नये गायत्रायेति दशहविषं सर्वपृष्ठां निर्वपति २

03 समिद्दिशामाशया न इति ...{Loading}...

समिद्दिशामाशया न इति यथालिङ्गं याज्यानुवाक्याः ३

04 कस्त्वा युनक्ति स ...{Loading}...

कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीन्युनक्ति ४

05 अस्य यज्ञस्यर्द्ध्यै मह्यं ...{Loading}...

अस्य यज्ञस्यर्द्ध्यै मह्यं सन्नत्या इति सर्वत्रानुषजति ५

06 रथवाहने हविर्धाने राज्जुदालमेकविंशत्यरत्निमग्निष्ठम् ...{Loading}...

रथवाहने हविर्धाने राज्जुदालमेकविंशत्यरत्निमग्निष्ठं मिनोति ६

07 पौतुद्रवावभितः त्रयो बैल्वा ...{Loading}...

पौतुद्रवावभितः । त्रयो बैल्वा दक्षिणतः । त्रयः उत्तरतः । त्रयः खादिरा दक्षिणतः । त्रय उत्तरतः । त्रयः पालाशा दक्षिणतः । त्रय उत्तरतः ७

08 खादिराः पालाशा वान्तत ...{Loading}...

खादिराः पालाशा वान्तत इत्येके ८

09 एकादशैकादशिनीः प्राचीः सम्मिन्वन्तीति ...{Loading}...

एकादशैकादशिनीः प्राचीः सम्मिन्वन्तीति कालबविब्राह्मणं भवति ९

10 चतुष्टय्य आपो दिग्भ्यः ...{Loading}...

चतुष्टय्य आपो दिग्भ्यः समाभृताः १०

11 तासां वसतीवरीर्गृह्णाति ...{Loading}...

तासां वसतीवरीर्गृह्णाति ११

12 श्वो भूते प्रतायते ...{Loading}...

श्वो भूते प्रतायते गोतमचतुष्टोमयोः पूर्वो रथंतरसामा १२

13 पशुकाल आग्नेयं सवनीयम् ...{Loading}...

पशुकाल आग्नेयं सवनीयं पशुमुपाकरोति । ऐकादशिनान्वा १३

14 दक्षिणाकाले यदब्राह्मणानान् दिक्षु ...{Loading}...

दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्त्र्यहे समशः प्रतिविभज्यान्वहं ददाति १४

इति नवमी कण्डिका


  1. See XVI.17.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB III.8.21.1. ↩︎ ↩︎ ↩︎ ↩︎