०८

01 यदमित्रा अश्वं विन्देरन्हन्येतास्य ...{Loading}...

यदमित्रा अश्वं विन्देरन्हन्येतास्य यज्ञः १

02 अथान्यमानीय प्रोक्षेयुः ...{Loading}...

अथान्यमानीय प्रोक्षेयुः २

03 एतस्य संवत्सरस्य योत्तमामावास्या ...{Loading}...

एतस्य संवत्सरस्य योत्तमामावास्या तस्यामुखां सम्भरति ३

04 त्रैधातवीया दीक्षणीया ...{Loading}...

त्रैधातवीया दीक्षणीया ४

05 आकूत्यै प्रयुजेऽग्नये स्वाहेति ...{Loading}...

आकूत्यै प्रयुजेऽग्नये स्वाहेति चत्वार्यौद्ग्रहणानि जुहोति ५

06 स्वाहाधिमाधीताय स्वाहेति त्रीणि ...{Loading}...

स्वाहाधिमाधीताय स्वाहेति त्रीणि वैश्वदेवानि ६

07 सोऽयन् दीक्षा हुतिकालो ...{Loading}...

सोऽयं दीक्षा हुतिकालो विवृद्धः ७

08 सप्ताहमन्वहमौद्ग्रहणैर्वैश्वदेवैश्चोत्तरैः प्रचरति ...{Loading}...

सप्ताहमन्वहमौद्ग्रहणैर्वैश्वदेवैश्चोत्तरैः प्रचरति ८

09 षडुत्तमेऽहन्यौद्ग्रहणानि जुहोति सर्वस्मै ...{Loading}...

षडुत्तमेऽहन्यौद्ग्रहणानि जुहोति । सर्वस्मै स्वाहेति पूर्णाहुतिमुत्तमाम् ९

10 षडहमाग्नावैष्णवेन प्रचरति ...{Loading}...

षडहमाग्नावैष्णवेन प्रचरति १०

11 सप्तम्यामाग्निक्या त्रिहविषेति वाजसनेयकम् ...{Loading}...

सप्तम्यामाग्निक्या त्रिहविषेति वाजसनेयकम् ११

12 भुवो देवानाङ् कर्मणेत्यृतुदीक्षाभिः ...{Loading}...

भुवो देवानां कर्मणेत्यृतुदीक्षाभिः कृष्णाजिनमारोहन्तमभिमन्त्रयते १२

13 आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी ...{Loading}...

आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतां जज्ञि बीजमिति जातमुख्यमुपतिष्ठते १३

14 विसृष्टवाचि यजमाने सम्प्रेष्यति ...{Loading}...

विसृष्टवाचि यजमाने सम्प्रेष्यति वीणागणकिनो देवैरिमं यजमानं सङ्गायतेति १४

15 एवं सदौ पवसथात् ...{Loading}...

एवं सदौ पवसथात् १५

16 प्रजापतिना सुत्यास्ववभृथोदयनीयानूबन्ध्योदवसानीयास्विति ...{Loading}...

प्रजापतिना सुत्यास्ववभृथोदयनीयानूबन्ध्योदवसानीयास्विति १६

17 देवैरन्ततः ...{Loading}...

देवैरन्ततः १७

इत्यष्टमी कण्डिका


  1. Cp. TB III.8.9.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See X.9.3. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS VII.5.20. ↩︎