०७

01 सायम्प्रातर्ब्राह्मणौ वीणागाथिनौ गायेताम् ...{Loading}...

सायम्प्रातर्ब्राह्मणौ वीणागाथिनौ गायेताम् १

02 एवमेतानि सावित्रादीनि संवत्सरङ् ...{Loading}...

एवमेतानि सावित्रादीनि संवत्सरं कर्माणि क्रियन्ते २

03 सकृद्वाश्वचरितानि जुहोति ...{Loading}...

सकृद्वाश्वचरितानि जुहोति ३

04 त्रिंशिमास एष सम्वत्सरो ...{Loading}...

त्रिंशिमास एष सम्वत्सरो भवति ४

05 अपवृत्तास्विष्टिषु वीणागाथिभ्यां शतमनोयुक्तञ् ...{Loading}...

अपवृत्तास्विष्टिषु वीणागाथिभ्यां शतमनोयुक्तं च ददाति ५

06 शते चानोयुक्ते चेत्येके ...{Loading}...

शते चानोयुक्ते चेत्येके ६

07 ऊर्ध्वमेकादशान्मासादाश्वत्थे व्रजेऽश्वम् बध्नन्ति ...{Loading}...

ऊर्ध्वमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बध्नन्ति ७

08 तस्मै बद्धाय यवसमाहरन्ति ...{Loading}...

तस्मै बद्धाय यवसमाहरन्ति ८

09 यद्यश्वमुपतपद्विन्देदाग्नेयमष्टाकपालन् निर्वपेत्सौम्यञ् चरुं ...{Loading}...

यद्यश्वमुपतपद्विन्देदाग्नेयमष्टाकपालं निर्वपेत्सौम्यं चरुं सावित्रमष्टाकपालम् ९

10 पौष्णञ् चरुं यदि ...{Loading}...

पौष्णं चरुं यदि श्लोणः १०

11 रौद्रञ् चरुं यदि ...{Loading}...

रौद्रं चरुं यदि महती देवताभिमन्येत ११

12 वैश्वानरन् द्वादशकपालन् निर्वपेन्मृगाखरे ...{Loading}...

वैश्वानरं द्वादशकपालं निर्वपेन्मृगाखरे यदि नागच्छेत् १२

13 यद्यधीयादग्नयेऽहॐ\!मुचेऽष्टाकपालः सौर्यम् पयो ...{Loading}...

यद्यधीयादग्नयेऽहॐ!मुचेऽष्टाकपालः सौर्यं पयो वायव्य आज्यभागः १३

14 यदि वडबामधीयात्प्राजापत्यञ् चरुन् ...{Loading}...

यदि वडबामधीयात्प्राजापत्यं चरुं द्वादशकपालं वा १४

15 यदि नश्येद्वायव्यञ् चरुम् ...{Loading}...

यदि नश्येद्वायव्यं चरुम् १५

16 यदि सेनामीत्वरी विन्देतेन्द्राय ...{Loading}...

यदि सेनामीत्वरी विन्देतेन्द्राय जयत एकादशकपालम् १६

17 यदि प्रासहा नयेयुरिन्द्राय ...{Loading}...

यदि प्रासहा नयेयुरिन्द्राय प्रसह्वन एकादशकपालम् १७

18 यद्यन्धः स्यात्सौर्यञ् चरुमेककपालं ...{Loading}...

यद्यन्धः स्यात्सौर्यं चरुमेककपालं वा १८

19 यदि श्वभ्रेऽवपतेद्वैष्णवञ् चरुम् ...{Loading}...

यदि श्वभ्रेऽवपतेद्वैष्णवं चरुम् १९

20 अद्यविज्ञातेन यक्ष्मणा म्रियेत ...{Loading}...

अद्यविज्ञातेन यक्ष्मणा म्रियेत प्राजापत्यं चरुं द्वादशकपालं वा २०

इति सप्तमी कण्डिका


  1. The context indicates that the word vd is expected in this Sūtra But the text does not use it. TB III.9.14.1 mentions this alternative but then rejects it. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎