०६

01 सवित्रे प्रातरष्टाकपालन् निर्वपति ...{Loading}...

सवित्रे प्रातरष्टाकपालं निर्वपति १

02 तस्य पुरस्तात्स्विष्टकृत आयनाय ...{Loading}...

तस्य पुरस्तात्स्विष्टकृत आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावाञ्जुहोति २

03 ईङ्काराय स्वाहेङ्कृताय स्वाहेत्यश्वचरितानि ...{Loading}...

ईङ्काराय स्वाहेङ्कृताय स्वाहेत्यश्वचरितानि ३

04 अज्ज्येताय स्वाहा कृष्णाय ...{Loading}...

अज्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यष्टाचत्वारिंशतमश्वरूपाणि । एकमतिरिक्तम् ४

05 अत्र ब्राह्मणो वीणागाथी ...{Loading}...

अत्र ब्राह्मणो वीणागाथी गायतीत्यददा इत्ययजथा इत्यपच इति तिस्रः ५

06 सवित्रे प्रसवित्र एकादशकपालम् ...{Loading}...

सवित्रे प्रसवित्र एकादशकपालं मध्यन्दिने । सवित्र आसवित्रे द्वादशकपालमपराह्णे ६

07 दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति ...{Loading}...

दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति पारिप्लवं भौवन्यवं चाचिख्यासन् ७

08 तन् दक्षिणेन हिरण्यकशिघोर्ब्रह्मा ...{Loading}...

तं दक्षिणेन हिरण्यकशिघोर्ब्रह्मा यजमानश्च ८

09 पुरस्तादध्वर्युर्हैरण्ये कूर्चे ...{Loading}...

पुरस्तादध्वर्युर्हैरण्ये कूर्चे ९

10 दक्षिणतो वीणागणकिन उपोपविशन्ति ...{Loading}...

दक्षिणतो वीणागणकिन उपोपविशन्ति १०

11 इत्यध्वर्युं होतामन्त्रयते ...{Loading}...

उपविष्टेष्वध्वर्यो३ इत्यध्वर्युं होतामन्त्रयते ११

12 यि होतरित्यध्वर्युः प्रतिगृणाति ...{Loading}...

हो३यि होतरित्यध्वर्युः प्रतिगृणाति । ॐ होतरिति वा १२

13 संस्थितयोरध्वर्युः सम्प्रेष्यति वीणागणकिनः ...{Loading}...

संस्थितयोरध्वर्युः सम्प्रेष्यति वीणागणकिनः पूर्वैः सह सकृद्भी राजभिरिमं यजमानं सङ्गायतेति १३

14 सायन् धृतिषु हूयमानासु ...{Loading}...

सायं धृतिषु हूयमानासु राजन्यो वीणागाथी गायतीत्यजिना इत्ययुध्यथा इत्यमुं सङ्ग्राममहन्निति तिस्रः १४

इति षष्ठी कण्डिका


  1. Of the first day of the year during which the horse wanders freely. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB III.8.12.1. ↩︎ ↩︎ ↩︎ ↩︎