०५

01 अथैनम् प्रतिदिशम् प्रोक्षति ...{Loading}...

अथैनं प्रतिदिशं प्रोक्षति १

02 प्रजापतये त्वा जुष्टम् ...{Loading}...

प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात्प्रत्यङ् तिष्ठन् २

03 इन्द्राग्निभ्यान् त्वेति दक्षिणत ...{Loading}...

इन्द्राग्निभ्यां त्वेति दक्षिणत उदङ् ३

04 वायवे त्वेति पश्चात्प्राङ् ...{Loading}...

वायवे त्वेति पश्चात्प्राङ् ४

05 विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतो ...{Loading}...

विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतो दक्षिणा ५

06 देवेभ्यस्त्वेत्यधस्तात् ...{Loading}...

देवेभ्यस्त्वेत्यधस्तात् ६

07 सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात् ...{Loading}...

सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात् ७

08 पृथिव्यै त्वान्तरिक्षाय त्वा ...{Loading}...

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति शेषम् ८

09 विभूर्मात्रा प्रभूः पित्रेत्यश्वस्य ...{Loading}...

विभूर्मात्रा प्रभूः पित्रेत्यश्वस्य दक्षिणे कर्णे यजमानमश्वनामानि वाचयित्वाग्नये स्वाहा स्वाहेन्द्राग्निभ्यामिति पूर्वहोमान्हुत्वा भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्यश्वमुत्सृज्य देवा आशापाला इति रत्निभ्यः परिददाति ९

10 शतङ् कवचिनो रक्षन्ति ...{Loading}...

शतं कवचिनो रक्षन्ति १०

11 अपर्यावर्तयन्तोऽश्वमनुचरन्ति ...{Loading}...

अपर्यावर्तयन्तोऽश्वमनुचरन्ति ११

12 चतुःशता इत्येकेषाम् ...{Loading}...

चतुःशता इत्येकेषाम् १२

13 शतन् तल्प्या राजपुत्राः ...{Loading}...

शतं तल्प्या राजपुत्राः सन्नद्धाः सन्नद्धसारथिनः शतमुग्रा अराजानः सन्नद्धाः सन्नद्धसारथिनः शतं वैश्या विपथिनः शतं शूद्रा वरूथिनः १३

14 तेऽश्वस्य गोप्तारो भवन्ति ...{Loading}...

तेऽश्वस्य गोप्तारो भवन्ति १४

15 यद्यद्ब्राह्मणजातमुपेयुस्तान्पृच्छेयुः कियद्यूयमश्वमेधस्य वित्थेति ...{Loading}...

यद्यद्ब्राह्मणजातमुपेयुस्तान्पृच्छेयुः कियद्यूयमश्वमेधस्य वित्थेति १५

16 यो न विद्यात्तञ् ...{Loading}...

यो न विद्यात्तं जित्वा तस्य गृहात्खादं पानं चोपनिवपेयुः १६

17 यदब्राह्मणानाङ् कृतान्नन् तदेषामन्नम् ...{Loading}...

यदब्राह्मणानां कृतान्नं तदेषामन्नम् १७

18 रथकारकुले वसतिर्भवति ...{Loading}...

रथकारकुले वसतिर्भवति १८

19 इह धृतिः स्वाहेति ...{Loading}...

इह धृतिः स्वाहेति सायमश्वस्य चतुर्षु पत्सु चतस्रो धृतीर्जुहोति १९

इति पञ्चमी कण्डिका


  1. Cf. TB III.8.7.1-3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS VIII.1.12.c. ↩︎ ↩︎ ↩︎

  3. TS VII.1.12.d; cf.TB III.8.9.3. ↩︎

  4. For Ratnins see TB I.7.3.1ff. ↩︎

  5. TS VII.1.12.e. ↩︎