०४

01 शतेन राजपुत्रैः सहाध्वर्युः ...{Loading}...

शतेन राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यङ् तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजा वृत्रं वध्यादिति १

02 शतेनाराजभिरुग्रैः सह ब्रह्मा ...{Loading}...

शतेनाराजभिरुग्रैः सह ब्रह्मा दक्षिणत उदङ् तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजाप्रतिधृष्योऽस्त्विति २

03 शतेन सूतग्रामणिभिः सह ...{Loading}...

शतेन सूतग्रामणिभिः सह होता पश्चात्प्राङ् तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजास्यै विशो बहुग्वै बह्वश्वायै बह्वजाविकायै बहुव्रीहियवायै बहुमाषतिलायै बहुहिरण्यायै बहुहस्तिकायै बहुदासपुरुषायै रयिमत्यै पुष्टिमत्यै बहुरायस्पोषायै राजास्त्विति ३

04 शतेन क्षत्तृसङ्ग्रहीतृभिः सहोद्गातोत्तरतो ...{Loading}...

शतेन क्षत्तृसङ्ग्रहीतृभिः सहोद्गातोत्तरतो दक्षिणा तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजा सर्वमायुरेत्विति ४

05 अत्रैतमैषीकमपप्लाव्या नुदकमश्वमाक्रमय्यान्तरा स्थानमाक्रमणञ् ...{Loading}...

अत्रैतमैषीकमपप्लाव्या नुदकमश्वमाक्रमय्यान्तरा स्थानमाक्रमणं चेदं विष्णुः प्र तद्विष्णुर्दिवो वा विष्णवित्यश्वस्य पदे तिस्रो वैष्णवीर्युत्वाश्वस्य स्तोकाननुमन्त्रयतेऽग्नये स्वाहा सोमाय स्वाहेति ५

06 शकृत्व एतमनुवाकमावर्तयति दशदशसम्पातम् ...{Loading}...

शकृत्व एतमनुवाकमावर्तयति दशदशसम्पातम् । अपरिमितकृत्वो वा ६

इति चतुर्थी कण्डिका


  1. Ugra = a son of a Kśatriya-man and a Śudra-woman. ↩︎ ↩︎ ↩︎

  2. TS VII.1.16.1ff; cf. TB III.8.6.1ff. ↩︎ ↩︎