०३

01 ब्राह्मणा राजानश्चायं वोऽध्वर्यू ...{Loading}...

ब्राह्मणा राजानश्चायं वोऽध्वर्यू राजा । या ममापचितिः सा व एतस्मिन् । यद्व एष करोति तद्वः कृतमसदिति १

02 यावद्यज्ञमध्वर्यू राजा भवति ...{Loading}...

यावद्यज्ञमध्वर्यू राजा भवति २

03 देवस्य त्वा सवितुः ...{Loading}...

देवस्य त्वा सवितुः प्रसव इति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यभिमन्त्र्य ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यो मेधाय प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ३

04 तम् बधान देवेभ्यो ...{Loading}...

तं बधान देवेभ्यो मेधाय प्रजापतये तेन राध्नुहीति प्रत्याह ४

05 अभिधा असीत्यश्वमभिदधाति ...{Loading}...

अभिधा असीत्यश्वमभिदधाति ५

06 आनयन्ति श्वानञ् चतुरक्षं ...{Loading}...

आनयन्ति श्वानं चतुरक्षं विष्वग्बन्धेन बद्धम् ६

07 पितुरनुजायाः पुत्रः पुरस्तान्नयति ...{Loading}...

पितुरनुजायाः पुत्रः पुरस्तान्नयति । मातुरनुजायाः पुत्रः पश्चात् ७

08 सैध्रकम् मुसलम् ...{Loading}...

सैध्रकं मुसलम् ८

09 पौंश्चलेयः पेशसा जानु ...{Loading}...

पौंश्चलेयः पेशसा जानु वेष्टयित्वा पश्चादन्वेति ९

10 अपोऽश्वमभ्यवगाहयन्ति श्वानञ् च ...{Loading}...

अपोऽश्वमभ्यवगाहयन्ति श्वानं च १०

11 यत्र शुनोऽप्रतिष्ठा तदध्वर्युः ...{Loading}...

यत्र शुनोऽप्रतिष्ठा तदध्वर्युः प्रसौति जहीति ११

12 यो अर्वन्तमिति सैध्रकेण ...{Loading}...

यो अर्वन्तमिति सैध्रकेण मुसलेन पौंश्चलेयः शुनः प्रहन्ति १२

13 तमश्वस्याधस्पदमुपास्यति परो मर्तः ...{Loading}...

तमश्वस्याधस्पदमुपास्यति परो मर्तः पर श्वेति १३

14 दक्षिणापप्लाव्याहञ् च त्वञ् ...{Loading}...

दक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति १४

15 अभि क्रत्वेन्द्र भूरध ...{Loading}...

अभि क्रत्वेन्द्र भूरध ज्मन्नित्यध्वर्युर्यजमानं वाचयति १५

16 आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम् ...{Loading}...

आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम् १६

17 तस्मिन्नार्द्रा वेतसशाखोपसम्बद्धा भवति ...{Loading}...

तस्मिन्नार्द्रा वेतसशाखोपसम्बद्धा भवति १७

18 तन् द्वे शते ...{Loading}...

तं द्वे शते दक्षिणतो धारयतः । द्वे उत्तरतः १८

19 तेनाश्वम् पुरस्तात्प्रत्यश्चमभ्युदूहन्ति ...{Loading}...

तेनाश्वं पुरस्तात्प्रत्यश्चमभ्युदूहन्ति १९

इति तृतीया कण्डिका


  1. TS VII.1.11.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TB III.8.3.2. ↩︎ ↩︎

  3. TS VII.1.11.b. ↩︎ ↩︎

  4. TB III.8.3.2. ↩︎