०३

01 ब्राह्मणा राजानश्चायं वोऽध्वर्यू …{Loading}…

ब्राह्मणा राजानश्चायं वोऽध्वर्यू राजा । या ममापचितिः सा व एतस्मिन् । यद्व एष करोति तद्वः कृतमसदिति १

02 यावद्यज्ञमध्वर्यू राजा भवति …{Loading}…

यावद्यज्ञमध्वर्यू राजा भवति २

03 देवस्य त्वा सवितुः …{Loading}…

देवस्य त्वा सवितुः प्रसव इति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यभिमन्त्र्य ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यो मेधाय प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ३

04 तम् बधान देवेभ्यो …{Loading}…

तं बधान देवेभ्यो मेधाय प्रजापतये तेन राध्नुहीति प्रत्याह ४

05 अभिधा असीत्यश्वमभिदधाति …{Loading}…

अभिधा असीत्यश्वमभिदधाति ५

06 आनयन्ति श्वानञ् चतुरक्षं …{Loading}…

आनयन्ति श्वानं चतुरक्षं विष्वग्बन्धेन बद्धम् ६

07 पितुरनुजायाः पुत्रः पुरस्तान्नयति …{Loading}…

पितुरनुजायाः पुत्रः पुरस्तान्नयति । मातुरनुजायाः पुत्रः पश्चात् ७

08 सैध्रकम् मुसलम् …{Loading}…

सैध्रकं मुसलम् ८

09 पौंश्चलेयः पेशसा जानु …{Loading}…

पौंश्चलेयः पेशसा जानु वेष्टयित्वा पश्चादन्वेति ९

10 अपोऽश्वमभ्यवगाहयन्ति श्वानञ् च …{Loading}…

अपोऽश्वमभ्यवगाहयन्ति श्वानं च १०

11 यत्र शुनोऽप्रतिष्ठा तदध्वर्युः …{Loading}…

यत्र शुनोऽप्रतिष्ठा तदध्वर्युः प्रसौति जहीति ११

12 यो अर्वन्तमिति सैध्रकेण …{Loading}…

यो अर्वन्तमिति सैध्रकेण मुसलेन पौंश्चलेयः शुनः प्रहन्ति १२

13 तमश्वस्याधस्पदमुपास्यति परो मर्तः …{Loading}…

तमश्वस्याधस्पदमुपास्यति परो मर्तः पर श्वेति १३

14 दक्षिणापप्लाव्याहञ् च त्वञ् …{Loading}…

दक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति १४

15 अभि क्रत्वेन्द्र भूरध …{Loading}…

अभि क्रत्वेन्द्र भूरध ज्मन्नित्यध्वर्युर्यजमानं वाचयति १५

16 आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम् …{Loading}…

आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम् १६

17 तस्मिन्नार्द्रा वेतसशाखोपसम्बद्धा भवति …{Loading}…

तस्मिन्नार्द्रा वेतसशाखोपसम्बद्धा भवति १७

18 तन् द्वे शते …{Loading}…

तं द्वे शते दक्षिणतो धारयतः । द्वे उत्तरतः १८

19 तेनाश्वम् पुरस्तात्प्रत्यश्चमभ्युदूहन्ति …{Loading}…

तेनाश्वं पुरस्तात्प्रत्यश्चमभ्युदूहन्ति १९

इति तृतीया कण्डिका


  1. TS VII.1.11.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TB III.8.3.2. ↩︎ ↩︎

  3. TS VII.1.11.b. ↩︎ ↩︎

  4. TB III.8.3.2. ↩︎